________________
४८० श्रीतिलकाचार्यविरचितटीकायुतम्
देशनाध्वनिना गर्जन्, वर्षन् श्रुतसुधारसम् । वपुःकान्त्या प्रसर्पन्त्या, प्रस्फुरन्त्येव विद्युता ।।१०० ।। मोहादित्यातपं लुम्पन्, हर्षयन् भव्यकेकिनः । श्वेताम्बरैः परिवृत्तो, बलाकापटलैरिव ।।१०१।। सदासारप्रचारेण, भृशमुत्कर्षयन् क्षमाम् । मिथ्यादृष्टियशोहंसान्, सर्वतोऽपि प्रवासयन् ।।१०२। . संवेगरसपूरेण, पूरयन् सङ्घमानसम् । कीर्तिकल्लोलिनीवाहं, वाहयन् स्वगुणाम्बुभिः ।।१०३।। चॅनागमोपलम्भेन, प्रीणिताखिलविष्टपः । अनेकधान्यसम्भूति-निदानाद्भुतदर्शनः ।।१०४ ।। सम्भूतविजयस्वामी, पाटलीपुत्रपत्तनम् । उत्कण्ठितानां लोकानां, वर्षाकाल इवागमत् ।।१०५।। षड्भिः कुलकम् ।
अथाषाढीचतुर्मास्यां, जगृहुर्गुरुपार्श्वत: । . शस्त्राणीवान्तरारातीन्, निग्रहीतुमभिग्रहान् ।।१०६ ।। एकः सिंहगुहाद्वारे, चतुर्मासीमुपोषितः । कायोत्सर्गस्थितः स्थास्या-मीत्यभिग्रहमग्रहीत् ।।१०७ ।। चतुर्मासी दृग्विषाहे-बिलद्वारे द्वितीयकः । कायोत्सर्गेणोपवासैः, स्थास्यामीति प्रपन्नवान् ।।१०८ ।। तृतीयः स्वीचकारेति, स्थास्याम्यहमुपोषितः । उत्सर्गी कूपमण्डूका-सने मासचतुष्टयम् ।।१०९।। योग्यास्तत्र सुसाधूंस्तान् गुरुर्मत्वा त्वमन्यत । स्वं स्वं स्थानं ययुस्तेऽथ, शान्तः सिंहस्तथोरुगः ।।११० ।। स्थूलभद्रोऽपि तत्प्रेक्षा-पेक्षयाऽभिग्रहोद्यतः । समीहा कस्य वा न स्यात् ?, सत्कर्मणि निरीक्षिते ।।१११।। नमस्कृत्य गुरून् भक्त्या, स संविग्नोऽभ्यधादिदम् ।
शक्यते करिभिः सार्धं, विधातुं नेक्षुभक्षणम् ।।१२।। * संवरस्य ६-१० ।। - अत्रान्तरैर्वारिभिर्भूभिं, त्याजितैः श्यामलाननैः । भीत्येव गगनारूढर्घनैरिवोपलक्षितः २.६-१०, अयं मूलपाठः १० टिप्पण्यामपि ।। ति०६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org