________________
श्रीदशवैकालिकसूत्रम्
४८१ परं बालकवद् याचे, पूज्यपादाः सुखादिकाम् । भवतामन्तिके किञ्चित्, अल्पमात्रमभिग्रहम् ।।११३।। गुरुरूचे महासत्त्व, सत्त्ववानसि चेतसि । सुकुमारमशक्तं तु, वपुस्तेऽभिग्रहग्रहे ।।११४ ।।
स्वामिन्नात्मानुमानेन, मार्गयिष्याम्यभिग्रहम् । स एवोत्पाद्यते भारो, निर्वोढुं शक्यते हि यः ।।११५ ।। स्वामिन्नत्रैव कोशाया, विलासिन्या निवेशने । मकरध्वजराजस्य, विलासानमिवौकसि ।।११६ ।। चित्रशालागृहे तत्र, स्वर्विमानापमानिनि । वात्स्यायनोक्तैश्चित्रैश्च, शान्तस्वान्तापहारिणि ।।११७ ।। नित्यं विकृतिभिः षड्भि-रप्यहं कृतभोजनः । गृह्णन् सर्वरसाहार-मपि शय्यातरीगृहे ।।११८ ।। अष्टम्यादिष्वपि तपो-ऽकुर्वन् पर्वतिथिष्वपि । स्थास्यामि चतुरो मासा-नित्ययं मेऽस्त्वभिग्रहः ।।११९ ।। आकर्ण्य गुरुरुत्कर्ण-स्तां तद्वाचं व्यचिन्तयत् । ईदृग्विधोऽपि किमयं, चारित्राद् विघटिष्यते ? ।।१२० ।। रवेरपि तमस्तोमः, सन्तापः, शीतगोरपि । कर्पूरादपि दुर्गन्धो, जलादपि प्रदीपनम् ।।१२१।। पुष्करावर्तकादब्दात्, किं स्यादङ्गारवर्षणम् ? । पीयूषादपि मृत्युः किं ?, व्रतलुप्तिरितोऽपि हि ।।१२२।। . पितुः कुले गुरुकुले, सुधाकरकरोज्वले । प्रदास्यति श्रुतज्ञोऽपि, मषीकूर्चकमेष किम् ? ।।१२३।। श्रुतज्ञानेनोपयोगं, दत्वा विज्ञातवान् गुरुः । तदभिग्रहनिर्वाहं, शिखासहितमद्भुतम् ।।१२४ ।। ततो वीरव्रतेनास्य, परं विस्मयमागतः ।
बभूवोत्पुलकवपु-घाराहतकदम्बवत् ।।१२५ ।। * बालोऽपि वः पूज्याः, पार्श्वयोचे सुखादिकाम् । ततोऽभिग्रहमात्रस्य, दाने मेऽपि प्रसीदत । २.६-१०, अयं मूलपाठः १० टिप्पण्यामपि ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org