________________
४८२ . श्रीतिलकाचार्यविरचितटीकायुतम्
विज्ञायास्य बलीयस्त्व-मवाङ्मनसगोचरम् । तत्र गन्तुं स्थूलभद्र-मन्वज्ञासीदथो गुरुः ।।१२६।। भूर्भुवःस्वस्त्रयीवीरो, वैरी नस्तत्र तिष्ठति । . आर्द्रकर्षिर्महान् वीरो, नन्दिषेणो महाभटः ।।१२७ ।। आषाढभूति]नाथ, पातिताः समरे त्रयः । चिरायूँढव्रणास्तेऽथ, कष्टेनोत्तस्थिरे पुनः ।।१२८ ।। तद्गच्छ वत्स ! तत्र त्वं, निराशङ्कः ससौष्ठवः । जेष्यते लीलयैवाशु, सत्त्वया विजयी भव ।।१२९ ।। उवाच स्थूलभद्रोऽपि, गुरुमानन्दनिर्भरः । ममापि निश्चयोऽत्रार्थे, जज्ञे वोऽनुज्ञया प्रभो ! ।।१३० ।। अथ तत्र चतुर्मासी, कर्तुं स गुरुपार्श्वतः । . प्रससर्प स्फुरद्दर्प-कन्दर्पभटकुट्टनः ।।१३१ ।। ईर्यासमित्या समितः, पथि गच्छन्नधोमुखः । पश्यन्निव पदांस्तस्य, स क्व याताऽधुनाऽधमः ? ।।१३२ ।। अहं येन पुरा जित्वा, द्वादशाब्दी विडम्बितः ।. तं चेद् द्रक्ष्यामि रक्षामि, तस्य नामापि भूतले ।।१३३।। द्रष्ट्वायान्तं स्थूलभद्रं, चेटी कोशागृहान्तिके । कोशां वर्धापयामास, देव्येति तव वल्लभः ।।१३४।। तदानीमेव सा हृष्यन्, मयूरीव घनागमे । रतेरिव सखी कोशा, सम्मुखी समुपागमत्।।१३५ ।। करसम्पुटमायोज्य, तमूचे स्नेहनिर्भरा । चिरादपि स्मृता नाथ !, धन्याहं कार्यमादिश ।।१३६।। स्थूलभद्रोऽवदद् भद्रे !, निराबाधं निराकुलम् । स्थानं किञ्चिञ्चतुर्मासी, स्थातुं मेऽस्ति गृहे तव ।।१३७ ।। सहासं सावदन्नाथ !, गेहं देहं च तावकम् ।
सैव वश्चित्रशालास्तु, शालेव स्मरहस्तिनः ।।१३८ ।। * अहो अस्य ६-१० ।। १. कामः १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org