________________
श्रीदशवकालिकसूत्रम्
४५९ । दशमं सभिक्ष्वध्यध्यनम् ।। अनन्तराध्ययने आचारप्रणिहितो यथोक्तविनयसम्पन्नो भवतीत्युक्तम् । अत्र चैतेषु नवस्वध्ययनेषु यो व्यवस्थितः स सम्यग् भिक्षुरिति, अनेन सम्बन्धेनायातं सभिक्ष्वध्ययन व्याख्यायते । तस्य चेदमादिसूत्रम्
निक्खम्ममाणाइ बुद्धवयणे, निचं चित्तसमाहिओ भविजा । इत्थीण वसं न यावि गच्छे, वंतं नो पडियायए स भिक्खू ।।१।।
निःक्रम्य-प्रव्रज्य । आज्ञया-सद्गुरूपदेशेन । बुद्धवचने-सर्वज्ञप्रवचने । नित्यं चित्तसमाहितः-चित्तेनातिप्रसन्नो भवेत् । चित्तसमाधाने च स्त्रीवशस्य वान्तमापिबतश्च न स्यात्-अतस्तान्निषेधयति, स्त्रीणां च वशं न गच्छेत्, तदायत्तो न भवेत्, तद्वशो हि वान्तं विषयरसं प्रत्यापिबति, तं च यो न प्रत्यापिबति स भिक्षुः । तस्माद् भिक्षुणा त्रियो दूरतस्त्याज्या : ।।
तथा- .. पुढविं न खणे न खणावए, सीओदगं न पिवे न पिवावए । अगणिसत्थं जहा सुनिसियं, तं न जले न जलावए स भिक्खू ॥२॥
पूर्वार्धं स्पष्टम् । उत्तरार्धस्यार्थः । अग्निः-षट्जीवनिकायघातकः । यथा शस्त्रम्। सुनिशितम्-सुतीक्ष्णं, खड्गादि । तं न स्वयं ज्वलयति । न परैः ज्वालयति। नान्यं ज्वालयन्तमनुजानाति स भिक्षुः ।।
' आह परः-षड्जीवनिकायिकादिषु बहुष्वध्ययनेष्वयमर्थोऽभिहितः किं पुनरुक्त:? इत्युच्यते-तदुक्तार्थानुष्ठानपर एव भिक्षुरितिज्ञापनार्थमिति न दोषः ।।
तथाअनिलेण न विए न वियावए, हरियाणि न छिंदे न छिंदावए । बीयाणि सया विवजयंतो, सचित्तं नाहारए स भिक्खू ।।३।।
अनिलेन हेतुना-अनिलनिमित्तं, तालवृन्तादि । स्वयं न वीजयति । न परैः वीजयति । नान्यं वीजयन्तमनुजानाति । न हरितानि छिनत्ति स्वयम् । न परैः छेदयति। नाप्यन्यं छिन्दानमनुजानाति । बीजानि सदा विवर्जयेत्-सङ्घट्टनादिक्रियया।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org