Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh
View full book text
________________
श्रीदशवैकालिकसूत्रम्
___ ४५७ श्रुताध्ययनात् ज्ञानं भवति । ज्ञानाञ्च एकाग्रचित्तता । एकाग्रचित्तस्य शुद्धधर्मस्थितिः स्यात् । शुद्धधर्मे स्थितः शिष्यादिकं तत्र स्थापयति । श्रुतानि चाधीत्य श्रुतसमाधौ रतो भवति ।
अथ तपःसमाधिमाह
चउब्विहा खलु तवसमाही भवइ, तं जहा-नो इहलोगट्ठयाए तवमहिद्विजा, नो परलोगट्ठयाए तवमहिट्ठिजा, नो कित्तिवनसद्दसिलोगट्ठयाए तवसमहिडिजा, नन्नत्थ निजरट्ठयाए तवमहिट्ठिज्जा । चउत्थं पयं भवइ । भवइ य इत्थ सिलोगो । . चतुर्विधः खलु तपःसमाधिर्भवति । तद्यथा । इहलोकार्थम्-लब्ध्यादिवाञ्छया। तपः-अनशनादिरूपम् । नाधितिष्ठेत्-न कुर्यात्, धम्मिलवत् । न परलोकार्थम्जन्मान्तरभोगनिमित्तम् । तपोऽधितिष्ठेत्-ब्रह्मदत्तवत् । एवं न कीर्तिवर्णशब्दश्लाघार्थम्-सर्वदिग्व्यापी साधुवादः कीर्तिः, एगदिग्व्यापी वर्णः, अर्द्धदिग्व्यापी शब्दः, तत्स्थान एव साधुवादः श्लाघा । नैतदर्थं तपोऽधितिष्ठेत् । नान्यत्र निर्जरार्थम्-न कर्मनिर्जरामेकां विहाय । तपोऽधितिष्ठेत् । चतुर्थपदं भवति। भवति चात्र श्लोकः।।
विविहगुणतवोरए निचं, भवइ निरासए निजरट्ठिए । ... तवसा धुणइ पुराणपावगं, जुत्तो सया तवसमाहिए ।।४।।
विविधगुणतपोरतो नित्यम् । निराश:-नि:प्रत्याशः, इहलोकपरलोकार्थयोः। निर्जरार्थिकः-कर्मनिर्जरार्थी । ईदृक् साधुः तपसा धुनाति पुराणपापकं नवं च न बध्नाति । युक्तः सदा तप:समाधौ ।।
आचारसमाधिमाह
चउब्बिहा खलु आयारसमाही भवइ, तं जहा-नो इहलोगट्ठयाए आयारमहिद्विजा, नो परलोगट्ठयाए आयारमहिद्विजा, नो कित्तिवन्त्रसद्सिलोगट्ठयाए आयारमहिद्विजा, नन्नत्थ आरिहंतेहिं हेऊहिं आयारमहिद्विजा। चउत्थं पयं भवइ । भवइ य इत्थ सिलोगो ।
अर्थः प्राग्वत् । नवरम् । तप:शब्दस्थाने आचारशब्दोऽभिधेयः । अरिहंतेहिं हेऊहिं नान्यत्र-आर्हतैहेतुभिरनाश्रवत्वादिभिः । आचारम्-मूलगुणोत्तरगुणमयम् । अधितिष्ठेत् निरीहः सन् यथा मोक्ष एव भवति । चतुर्थपदं भवति । भवति चात्र श्लोकः ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574