Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh
View full book text
________________
___ श्रीदशवकालिकसूत्रम्
४६५ अधुना नियुक्तिकारः श्रीमान् भद्रबाहुस्वामी दशवैकालिकश्रुतस्कन्धमहाशास्त्रकारिणः चतुर्दशपूर्वधारिणः श्रीशय्यम्भवसूरेः गुणसंस्तवमेवमाविर्भावयामास।
सिजंभवं गणहरं, जिणपडिमादसणेण पडिबुद्धं । मणगपियरं दशगालियस्स निजूहगं वंदे ।।१।।
शय्यम्भवम्-शय्यम्भवाभिधानं युगप्रधानम् । गणधरम्-अनुत्तरज्ञानदर्शनादिगुणगणं धारयतीति गणधरस्तम् । जिनप्रतिमादर्शनेन प्रतिबुद्धम्-तत्र रागद्वेषकषायेन्द्रियपरीषहोपसर्गादिजेतृत्वात् जिनः, तस्य प्रतिमा-सद्भावस्थापनारूपा, तस्या दर्शनं, तेन-हेतुभूतेन, प्रतिबुद्धः-मिथ्यात्वाज्ञाननिद्रापगमेन, सम्यक्त्वविकास प्राप्तम् । मनकपितरम्-मनकाख्यापत्यजनकम् । दशकालिकमहाश्रुतस्कन्धस्य निर्वृहकम्-पूर्वगतोद्धृतार्थविरचनाकर्तारम्। वन्दे-स्तौमि । इति गाथार्थः ।। भावार्थः पुनः कथानकादवसेयस्तञ्चेदम्
॥शय्यम्भवसूरिकथा ।। श्रीमानभूमहावीर-श्चतुर्विंशो जिनेश्वरः । जित्वा बाह्यान्तरारीन् य-त्रिलोक्याः शिरसि स्थितः ।।१।। श्रीसुधर्मा सुधर्माभूत्, तदीयो गणनायकः । विपक्षक्षेपदक्षोऽपि, चित्रं प्रतिभयान्वितः ।।२।। जम्बूः कम्बूज्ज्वलगुण-स्तस्य शिष्योऽभवन्नवः । तां काञ्चनश्रियं बिभ्रत्, सकलत्रोऽपि केवली ।।३।। तदासनमलचक्रे, तदनु प्रभवः प्रभुः । आद्यश्चतुर्दशपूर्वी, यः श्रुतः श्रुतकेवली ।।४।। श्रुतोपयोगमन्येधु-भगवान् स प्रदत्तवान् । जिनप्रवचनाधारः, को भावी मदनन्तरम् ?।।५।। स्वगच्छे नेक्षितः कोऽपि, कल्पवृक्षः कलाविव । परगच्छेऽपि नादर्शि, कोऽपि पद्ममिवाम्बरे ।।६।। श्रुतज्ञानमथासङ्घ-पाथोधिरवगाहितः । किश्चित् तत्रापि न प्रापि, प्रज्ञापात्रं सुरत्नवत् ।।७।।
अथार्यदेशमध्यस्थान्, विश्वग्रामपुरादिकान् । तादृक् पात्रोपलम्भाय, प्रेक्षमाणो निरैक्षत ।।८।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574