SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् ___ ४५७ श्रुताध्ययनात् ज्ञानं भवति । ज्ञानाञ्च एकाग्रचित्तता । एकाग्रचित्तस्य शुद्धधर्मस्थितिः स्यात् । शुद्धधर्मे स्थितः शिष्यादिकं तत्र स्थापयति । श्रुतानि चाधीत्य श्रुतसमाधौ रतो भवति । अथ तपःसमाधिमाह चउब्विहा खलु तवसमाही भवइ, तं जहा-नो इहलोगट्ठयाए तवमहिद्विजा, नो परलोगट्ठयाए तवमहिट्ठिजा, नो कित्तिवनसद्दसिलोगट्ठयाए तवसमहिडिजा, नन्नत्थ निजरट्ठयाए तवमहिट्ठिज्जा । चउत्थं पयं भवइ । भवइ य इत्थ सिलोगो । . चतुर्विधः खलु तपःसमाधिर्भवति । तद्यथा । इहलोकार्थम्-लब्ध्यादिवाञ्छया। तपः-अनशनादिरूपम् । नाधितिष्ठेत्-न कुर्यात्, धम्मिलवत् । न परलोकार्थम्जन्मान्तरभोगनिमित्तम् । तपोऽधितिष्ठेत्-ब्रह्मदत्तवत् । एवं न कीर्तिवर्णशब्दश्लाघार्थम्-सर्वदिग्व्यापी साधुवादः कीर्तिः, एगदिग्व्यापी वर्णः, अर्द्धदिग्व्यापी शब्दः, तत्स्थान एव साधुवादः श्लाघा । नैतदर्थं तपोऽधितिष्ठेत् । नान्यत्र निर्जरार्थम्-न कर्मनिर्जरामेकां विहाय । तपोऽधितिष्ठेत् । चतुर्थपदं भवति। भवति चात्र श्लोकः।। विविहगुणतवोरए निचं, भवइ निरासए निजरट्ठिए । ... तवसा धुणइ पुराणपावगं, जुत्तो सया तवसमाहिए ।।४।। विविधगुणतपोरतो नित्यम् । निराश:-नि:प्रत्याशः, इहलोकपरलोकार्थयोः। निर्जरार्थिकः-कर्मनिर्जरार्थी । ईदृक् साधुः तपसा धुनाति पुराणपापकं नवं च न बध्नाति । युक्तः सदा तप:समाधौ ।। आचारसमाधिमाह चउब्बिहा खलु आयारसमाही भवइ, तं जहा-नो इहलोगट्ठयाए आयारमहिद्विजा, नो परलोगट्ठयाए आयारमहिद्विजा, नो कित्तिवन्त्रसद्सिलोगट्ठयाए आयारमहिद्विजा, नन्नत्थ आरिहंतेहिं हेऊहिं आयारमहिद्विजा। चउत्थं पयं भवइ । भवइ य इत्थ सिलोगो । अर्थः प्राग्वत् । नवरम् । तप:शब्दस्थाने आचारशब्दोऽभिधेयः । अरिहंतेहिं हेऊहिं नान्यत्र-आर्हतैहेतुभिरनाश्रवत्वादिभिः । आचारम्-मूलगुणोत्तरगुणमयम् । अधितिष्ठेत् निरीहः सन् यथा मोक्ष एव भवति । चतुर्थपदं भवति । भवति चात्र श्लोकः ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy