________________
४५६ - श्रीतिलकाचार्यविरचितटीकायुतम्
चतुर्विधः खलु विनयसमाधिर्भवति । तद्यथा । अनुशास्यमानः शुश्रूषतेअर्थितया श्रोतुमिच्छति । इच्छातः सम्यग् प्रतिपद्यते-सम्यग्-अविपरीतमनुशासनम्, यथार्थमनुबुध्यते, तञ्च सम्यगवबुध्य । वेदमाराधयति-वेद्यते अनेनेति वेदः-श्रुतज्ञानं तद्यथोक्तानुष्ठानेन सफलीकरोति । न च भवत्यात्मसम्प्रगृहीतः-आत्मा सम्यक् प्रकर्षण विनीतोऽहं, सुसाधुरहमित्येवं गृहीतो येन स तथा आत्मोत्कर्षी, न चैवं भूतः, स भवति यथोक्तानुष्ठायी । किं तर्हि अनात्मोत्कयॆव श्रुतोक्तानुष्ठाता भवतीत्यभिप्रायः । एतदेव सूत्रक्रमप्रामाण्यात् चतुर्थं पदं भवति । भवति चात्र श्लोकः ।।
पेहेइ हियाणुसासणं, सुस्सूसई तं च पुणो अहिट्ठए । न य माणमएण मजई, विणयसमाही आययट्ठिए ।।२।।
प्रार्थयते हितानुशासनम्-आचार्यादिभ्यः सदुपदेशम् । शुश्रूषते-अनेकार्थत्वात् तदवबुध्यते । तचावबुद्धं सत् पुनरधितिष्ठति-विनाकरोति । तञ्च कुर्वन् नः । मानमदेन-मानगर्वेण । माद्यति । विनयसमाधौ-विनयसमाधिविषये । आयतार्थी-मोक्षार्थी ।।
उक्तो विनयसमाधिः । श्रुतसमाधिमाह
चउब्विहा खलु सुयसमाही भवइ, तं जहा-सुयं मे भविस्सइ त्ति अज्झाइयव्वं भवइ, एगग्गचित्तो भविस्सामि त्ति अज्झाइयव्वं भवइ, अप्पाणं ठावइस्सामि त्ति अज्झाइयव्वं भवइ, ठिओ परं ठावइस्सामि त्ति अज्झाइयव्वं भवइ । चउत्थं पयं भवइ । भवइ य इत्थ सिलोगो ।
चतुर्विधः खलु श्रुतसमाधिर्भवति । तद्यथा । श्रुतं मे-आचारादिद्वादशाङ्गम्। भविष्यतीत्यध्येतव्यं भवति । तथा अध्ययनं कुर्वन्नेकाग्रचित्तो भविष्यामि-न विप्लुतचित्त इत्यध्येतव्यं भवति । एकाग्रचित्तश्चाध्ययनं कुर्वन् आत्मानं विशुद्धधर्मे स्थापयिष्यामीत्यध्येतव्यं भवति । तथाध्ययनफलात् स्थितः स्वयं विशुद्धधर्मे पर विनेयं स्थापयिष्यामीत्यध्येतव्यं भवति । इदं च क्रमप्राप्तं चतुर्थं पदं भवति । भवति चात्र श्लोकः ॥
स चायम्नाणमेगग्गचित्तो य, ठिओ ठावयई परं । सुयाणि अहिजित्ता, रओ सुयसमाहिए ॥३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org