________________
४५८ . श्रीतिलकाचार्यविरचितटीकायुतम्
जिणवयणरए अतितिणे, पडिपुत्राययमाययट्ठिए ।
आयारसमाहिसंवुडे, भवइ य दंते भावसंधए ।।५।।
जिनवचनरतः-आगमे कृतासक्तिः । अतिंतिन:-केनापि किमप्युक्तः सन्न पुनः पुनः ओषणशीलः । परिपूर्ण:-सूत्रादिना, आयतम्-अत्यन्तम् । आयतो दीर्घा, लक्षणया मोक्षस्तदर्थी-आयतार्थी । आचारसमाधिसंवृत्तः-आचारे यः समाधिस्तेन स्थगिताश्रवद्वारः। भवति च दान्तः-इन्द्रियनोइन्द्रियदमकः । भां-प्रभां, जीवस्य स्वाभाविकी ज्योतीरूपाम्, अवयति-प्रापयति यः, अनेकार्थत्वाद् धातूनां, स भावो मोक्षः, तं सन्धत्तेऽन्यतोऽपि चेति डप्रत्यये भावसन्धः, स एव भावसन्धकः-आत्मनो मोक्षासन्नत्वकारी ।।
सर्वसमाधिफलमाहअभिगम्म चउरो समाहिओ, सुविसुद्धो सुसमाहिअप्पओ । विउलहियसुहावहं पुणो, कुबइ सो पयखेममप्पणो ।।६।।
अभिगम्य-विज्ञायासेव्यः । चतुरः समाधीन्-अनन्तरोक्तान् । सुविशुद्धःमनोवाक्कायैः । सुसमाहितात्मकः-संयमे । विपुलं-विस्तीर्णं, हितं-वर्तमानानागतकलयोः पथ्यं, सुखं, आवहति प्रापयति, यत्तद् विपुलहितसुखावहम् । पुनः । पदम्स्थानम्। क्षेमम्-शिवम् । करोति आत्मनः सः- साधुः ।।
एतदेव स्पष्टयतिजाइमरणाओ मुई, इत्थत्थं च चयाइ सव्वसो । सिद्धे वा भवइ सासए, देवे वा अप्परए महिड्डिय त्ति बेमि ।।७॥
जातिमरणात्-जन्ममृत्युरूपात् संसारात् मुच्यते । इत्थं नारकादिव्यपदेशबीजं, वर्णसंस्थानादिभिः प्रकारैः स्थितम्, इत्थंस्थम् । तञ्च त्यजति । सर्वश:-सर्वप्रकारैः। अपुनर्ग्रहणतया सिद्धो वा भवति शाश्वतः । देवो वाऽल्परजाः-प्रतलकर्मा । महद्धिकः-अनुत्तरवैमानिकादिरेकावतारः । इति ब्रवीमीति प्राग्वत्
।। विनयसमाध्यध्ययने चतुर्थोद्देशकः ।। । समाप्ता विनयसमाध्यध्यनटीका ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org