Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore
View full book text
________________
२]
चित्रसेनपद्मावतीचरित्रम्
[७-१४
-
-
मनोभीष्टाशना भव्यवासनाः प्रवरासनाः । व्यवहारिजना यत्र वसन्ति धनदोपमाः ॥७॥ न्यायवान् शीलसम्पन्नः प्रजापालनलालसः । उदारमानसस्तत्र वीरसेननरेश्वरः ॥८॥ रूपश्रीसुन्दराकारा भाग्यसौभाग्यमन्दिरम् । रनमाला प्रिया तस्य सतीजनमतल्लिका ॥६॥ शशीव सज्जनानन्दी रूपनिर्जितमन्मथः । दाता शूरस्तयोः पुत्रः कुमारश्चित्रसेनकः ॥१०॥ वासवस्य गुरुमन्त्री श्रेणिकस्याभयो यथा । बुद्धिसाराभिधस्तस्य जातो मन्त्रीश्वरस्तथा ॥११॥ रत्नसारः सुतस्तस्य रत्नसारशरीररुक् । कुशाग्रतीक्ष्णधीः' सौम्यः सर्वशास्त्रविशारदः ॥१२॥ अन्योन्यमभवत्प्रीती राजसूमन्त्रिपुत्रयोः । मध्याहोत्तरकालीना छायेव ववृधे च सा ॥१३॥ नगरान्तर्भमन्तौ तौ रममाणौ परस्परम् | गृहोपरि समारुह्य विलोकन्ते पुराङ्गनाः ॥१४॥ समीक्ष्याथासमीचीनं विचार्य चतुरैनैरैः। 1 A. तीक्ष्यीधीः। 2zते ।

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99