Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore
View full book text
________________
१३८-१४६ ]
चित्रसेनपद्मावतीचरित्रम
-
-
मासे मासे च यात्रार्थमागता यक्षमन्दिरे। . हृष्टाः कुर्वन्ति ते वाधं गीतं नृत्यञ्च सुन्दरम् ॥१३८॥ कुमारश्चित्रसेनोपि वाद्यनादेन बोधितः । अपश्यत् पर्षदां तत्र सुपर्वाधीश्वरोपमाम् ॥१३॥ केपि वीणामुपादाय वाद्यन्ति मधुरस्वरम् । केपि गीतानि गायन्ति गम्भीरालापपूर्वकम् ॥१४॥ मृदङ्गतालकंसालविशालध्वनिपेशलम् । धनञ्जयाख्ययक्षाग्रे नृत्यं कुर्वन्ति केपि च ॥१४१।। कौतुकाकुलचित्तोपि कुमारः साहसाग्रणीः । करवालं करे कृत्वा तत्सभायां मुदागमत् ॥१४२॥ सर्वे यक्षादयो देवास्तं समालोक्य विस्मिताः । सुन्दरः कुमरः कोयं पृच्छन्तीति परस्परम् ।।१४३॥ धनञ्जयस्तदा दध्यौ प्राघूर्णो मम मन्दिरे । भागतः पूजनीयोयमेतदाचरणं सताम् ॥१४४॥ इति चेतसि सञ्चिन्त्य तुष्टोवोचद्धनञ्जयः । तुभ्यं यद्रोचते वत्स मार्गय त्वमशङ्कितः ॥१४॥ इतियक्षवचः श्रुत्वा कुमारो . विदुषाम्बरः। विनयाभिनमन्मौलिरेतद्वचनमब्रवीत् ॥१४॥
1 The editor suggests वादयन्ति मधुस्वरम् ।

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99