Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore

View full book text
Previous | Next

Page 95
________________ ५३६-५४७] चित्रसेनपद्मावतीचरित्रम् [६१ बोधिबीजकृते कामं सतां सन्तु स्वयम्भुवः ॥५३॥ इति स्तुत्वा जिनाधीशान कृत्वा च सफलं जनुः । पुनः पल्यङ्कमारुह्यागता निजपुरे त्रयः ॥५४०॥ पुण्यप्रभावतः प्राप्तं मित्रपत्नीसमन्वितः । पालयामास राज्यं स्वं भूपतिर्गतकण्टकम् ॥५४१॥ अन्यदा पर्षदासीनं सामन्तादिकसेवितम् । आरामिकः समागत्य भूमिपालं व्यजिज्ञपत् ॥५४२।। स्वामिन् मनोरमोद्याने सुरासुरनिषेवितः' । समागात् केवलज्ञानी दूमसारमुनीश्वरः ॥५४३॥ इति श्रुत्वा महीनेता वसनाभरणादिकम् । सन्तुष्टः प्रददौ तस्मै साध्यागमनशंसिने ५४४॥ भूरिभावेन सर्वां पुत्रमित्रकलत्रयुक् । नन्तुं साधुपदाम्भोजं जगाम जगतीपतिः । ॥५४५।। तं त्रिः प्रदक्षिणीकृत्य नत्वा केवलिनं मुदा । परिवारवृतो राजा यथास्थानमुपाविशत् ।।५४६।। समारेभे निरारम्भा साधुना धर्मदेशना । भवदुस्तापपाथोधिनिस्तारणतरीसमा ॥५४॥ यथा 1 A निषेविते।

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99