Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore
View full book text
________________
६० ]
चित्रसेनपद्मावतीचरित्रम्
[ ५३० -५३८
।
तण्डुलैर्मणिपीठे च वितेनुर्मङ्गलाष्टकम् । जिनाग्रे ढौकयामासुर्लाङ्गल्यादिफलावलीम् ||५३०॥ हेमदण्डमनोहारिध्वजारोपं वितेनिरे । ततो मङ्गलदीपेन साकमा रात्रिकं व्यधुः || ५३१॥ अथ भक्तिभरोत्फुल्लवपुपस्ते त्रयोपि हि । गुणौघं वर्णयामासुरानन्दात् सकलाईताम् ||५३२ ॥ सदानन्दरमाभोगरमाप्राणप्रियोपमाः 1 भवन्तु परमात्मानः परमाधीशताकृते || १५३३॥ प्रमादप्रभवोन्मादवैरिवारनिवारकाः I सर्वेषां सुखदाः सर्वे सर्वदा सर्वदर्शिनः || ५३४|| दुष्टाष्टकर्मनिर्मुक्ता मुक्का निर्मलकीर्तयः । विज्ञातत्रिजगद्भावा भावायाभयदाः सताम् ||५३५॥ देशना स्वर्नदीनीर पवित्रितजगत्त्रयाः जयन्तु जगतामीशाः प्राप्तानन्तचतुष्टयाः ||५३६ ॥ कल्याणावलिकर्तारो हर्तारो रागविद्विषाम् । नाभेयाद्याश्च वीरान्ता रमन्तां मम मानसे || ५३७ || अष्टापदे जिनाधीशान ये वन्दन्ते स्वलब्धितः । तस्मिन्नेव भवे यान्ति मानवास्ते महोदयम् ||५३८ || एवं विशारदैर्नता
1
विश्वत्रितयविश्रुताः ।

Page Navigation
1 ... 92 93 94 95 96 97 98 99