SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ६० ] चित्रसेनपद्मावतीचरित्रम् [ ५३० -५३८ । तण्डुलैर्मणिपीठे च वितेनुर्मङ्गलाष्टकम् । जिनाग्रे ढौकयामासुर्लाङ्गल्यादिफलावलीम् ||५३०॥ हेमदण्डमनोहारिध्वजारोपं वितेनिरे । ततो मङ्गलदीपेन साकमा रात्रिकं व्यधुः || ५३१॥ अथ भक्तिभरोत्फुल्लवपुपस्ते त्रयोपि हि । गुणौघं वर्णयामासुरानन्दात् सकलाईताम् ||५३२ ॥ सदानन्दरमाभोगरमाप्राणप्रियोपमाः 1 भवन्तु परमात्मानः परमाधीशताकृते || १५३३॥ प्रमादप्रभवोन्मादवैरिवारनिवारकाः I सर्वेषां सुखदाः सर्वे सर्वदा सर्वदर्शिनः || ५३४|| दुष्टाष्टकर्मनिर्मुक्ता मुक्का निर्मलकीर्तयः । विज्ञातत्रिजगद्भावा भावायाभयदाः सताम् ||५३५॥ देशना स्वर्नदीनीर पवित्रितजगत्त्रयाः जयन्तु जगतामीशाः प्राप्तानन्तचतुष्टयाः ||५३६ ॥ कल्याणावलिकर्तारो हर्तारो रागविद्विषाम् । नाभेयाद्याश्च वीरान्ता रमन्तां मम मानसे || ५३७ || अष्टापदे जिनाधीशान ये वन्दन्ते स्वलब्धितः । तस्मिन्नेव भवे यान्ति मानवास्ते महोदयम् ||५३८ || एवं विशारदैर्नता 1 विश्वत्रितयविश्रुताः ।
SR No.010184
Book TitleChitrasena Padmavati Charitra
Original Sutra AuthorN/A
AuthorMulraj Jain
PublisherJain Vidya Bhavan Lahore
Publication Year1942
Total Pages99
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy