Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore

View full book text
Previous | Next

Page 97
________________ ७-५६४ ] चित्रसेनपद्मावतीचरित्रम [६३ - शीलपालनतो ह्येतैर्भुक्त्वा राज्यश्रियं वराम् । जिनधर्म समाराध्य सम्प्राप्तं स्वर्गजं' सुखम् ॥५५७।। दुष्टारिष्टानि नश्यन्ति नृणां शीलप्रभावतः । शाकिनीभूतवेतालसिंहसर्पभयानि च ॥५५८॥ राज्यर्द्धिान्छिता लक्ष्मी रम्या रामा वराः सुताः। दीघायुर्विशदा कीर्तिः प्राप्यन्ते शीलपालनात् ॥५५६।। इत्थं धराधीश्वरचित्रसेन पद्मावतीशीलभव प्रभावम् ।। निशम्य लोकैः किल शीलनीयं शीलं सदानन्दकरं सदैव ।।५६०॥ तपगणगगनविभासनगगनध्वजसन्निभाः सुवर्णविभाः । श्रीविजयदानसूरीश्वरा बभूवुर्युगप्रवराः ॥५६१॥ तच्छिष्यजगन्मल्लाभिधविबुधा लब्धवर्णगजमल्लाः । तच्छिष्यबुद्धिविजयाभिधेन रचिता कथा सुखदा ॥५६२॥ श्रीहीरविजयसूरीश्वरपट्टोदयगिरिधुमणितुल्ये । सम्प्रति विराजमाने सूरिश्रीविजयसेनगुरौ ॥५६३।। नभरसरसचन्द्राब्दे श्रावणसितपश्चमीतिथौ सोमे । श्रीचित्रसेनपद्मावतीकथा जयतु बुद्धिविजयकृता ॥५६४।। ॥ इति श्रीचित्रसेनपद्मावतीचरित्रं सम्पूर्णम् ॥ A स्वर्गजसुखं । 2 A०पट्टस्वर्णशैलदेवतरौ । 37 सिते पञ्च ।

Loading...

Page Navigation
1 ... 95 96 97 98 99