Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore
View full book text
________________
३०१-३०६]
चित्रसेनपद्मावतीचरित्रम्
[३५
पौरुषं धिगिदं मे हि धिग बुद्धिं विभुतां च धिकू । पुत्ररत्ने मया येन चिन्तितं मारणं हहा ॥३०१।। इति वैराग्यरङ्गेण यावत्तिष्ठति रङ्गितः । तावच्चरमतीर्थेशो विहरंस्तत्र चागतः ॥३०२।। समवसरणं चक्रे प्रदेशे रमणीयके । चतुर्विधसुरैः सद्यो दुर्गत्रयविराजितम् ॥३०३॥ चतुरस्थितोदारचतुर्वापीमनोरमे उपविष्टो जिनाधीशस्तत्राशोकतरोस्तले ॥३०४॥ अर्हन्तमागतं ज्ञात्वा राजागात् सपरिच्छदः । तं त्रिः प्रदक्षिणीकृत्य नत्वाग्रे समुपाविशतू ॥३०॥ भवपाथोधिनिस्तारकारक पापवारकम् ।
उपदेशं जिनेशस्य शुश्राव श्रावकोत्तमः ॥३०६॥ यथा
अनित्यानि शरीराणि विभवो नैव शाश्वतः। नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसङ्ग्रहः ॥३०॥ कल्लोलचपला लक्षमी: सङ्गमाः स्वप्नसन्निभाः। वात्याव्यतिकरोत्क्षिप्ततूलतुल्यं तु यौवनम् ॥३०८॥ व्याकुलेनापि चित्तेन धर्मः कार्योन्तरान्तरा । मेढीबद्धोपि हि भ्राम्यन् घासनासं करोति गौः॥३०॥

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99