Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore

View full book text
Previous | Next

Page 82
________________ ४८] चित्रसेनपद्मावतीचरित्रम् [४१६-४२८ कीर्ति विस्तारयामास दानशीलादिपुण्यतः ॥४१६॥ अन्येद्युम्तं सभासीनं मन्त्रिसामन्तशोभितम् । नरः कोपि समागत्य विज्ञापयति भूपतिम् ॥४२०॥ देव सिंहपुरम्वामी वर्तत मिहशेखरः । गर्विती भूरिसैन्येन भवमीम विनाशकृत् ।।४२१॥ विध मार्गविध्वंसं मुष्णाति पथिकान बहून् । न सवां कुरुते दण्डं न ददाति कदाप्यसी ॥४२२।। सापराधमिति श्रुत्वा भूपो दूतमुखात्ततः । दुन्दुभि दापयामास कोपाटोपारुणेक्षणः ॥४२३॥ समl कवचानेकशनालीतुरगादिकम् । सारसत्कारतः सज्जीचकार सुभटान् नृपः ।।४२४।। चतुरङ्गचमूयुक्तश्चित्रसेननरेश्वरः वाद्यमानस्फुरद्वाद्यश्चचाल स्वपुरात्ततः॥४२।। अतुच्छमत्सराक्रान्तः कियद्भिर्वासरैस्ततः । भूपतिर्दण्डकारण्ये सम्प्राप भयभीषणे ॥४२६|| निशीथसमये जाते सुप्तेषु सैनिकेष्वथ । अकस्मात्क्रन्दनारावं श्रुत्वा राजा व्यचिन्तयत् ।।४२७।। अस्यां निर्मानुषाटव्यां श्रूयते क्रन्दनं किमु । विमृश्येति निजे चित्ते खड्गपाणिपोचलत् ॥४२८।।

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99