Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore
View full book text
________________
३५५-३६३ ]
चित्रसेनपद्मावतीचरित्रम्
[४१
मन्त्रीशः कथयामास चतुर्थावलिकामपि ॥३५॥ दोलापर्यङ्कके सुप्त मकलत्रं त्वयि प्रभो । भुजङ्गमो मया दृष्टः शृङ्खलातः समुत्तरन् ।।३५६॥ मयासौ घातितः सद्यः पतितं तस्य शोणितम् । राज्ञीजकोपरिष्टाच्च भीत्या वस्त्रेण मार्जितम् ॥३५॥ चित्रसेन नराधीश पुण्यपुण्यप्रभावतः । एतत्ते विलयं प्राप यक्षोक्तापञ्चतुष्टयम् ॥३५८॥ इत्युक्ते सहसा मन्त्री जात: पाषाणसन्निभः । पतितः पृथिवीपीठे देववाचा हि नान्यथा ॥३५.६॥ मित्रस्यापदमालोक्य राजा दुःखेन दुःखितः। स्मरन् सारगुणनातं मूर्छया न्यपतद्धवि ॥३६०॥ ततः शीतोपचारेण सुस्थीभूतो नरेश्वरः। हा भ्रातः प्रिय मित्रेति प्रजल्पन विललाप सः॥३६॥ विदेशभ्रमणे दक्षं मित्रार्थकरणक्षमम् । दुष्प्रापं नररत्नं हा मया मूढेन हारितम् ॥३६२॥ जानतापि मया हा धिगनर्थोयं स्वयं कृतः ।
भवितव्यानुसारेण बुद्धिः पुंसां हि जायते ॥३६३॥ यतः
तादृशी जायते बुद्धिर्व्यवसायाश्च तादृशाः।

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99