Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore

View full book text
Previous | Next

Page 77
________________ ३७३-३-१] चित्रसेनपद्मावतीचरित्रम् [४३ - - - रक्ताम्बरजटाधारियोगिसंन्यासिनोपि हि ॥३७३॥ कलावन्तः परिव्राजो निमित्तज्ञाश्च लिङ्गिनः। तन्त्रयन्त्रकमन्त्रज्ञा आगमिष्यन्त्यनकशः ॥३७४॥ कोपि जीवापये देनं मन्त्रादिक्रियया यदि ।। आवयोश्च तदा पुण्यात संसिद्धयन्ति मनोरथाः ॥३७॥ इयं क्रिया प्रियाप्रोक्ता कृता भूपेन रंहसा । वैदेशिकान् समायातान् प्रीणितान् दानमानतः ॥३७६॥ पृच्छति स्म प्रतीकारं मित्रदुःखनिवारकम् । कथितं यद्यथा येन कृतं भूपेन तत्तथा ॥३७७॥ कष्टं न याति मित्रस्य प्रतीकारे कृतेपि हि । निराशो वसुधाधीशः पुनश्चिन्तातुरोभवत् ॥३७८॥ भोगाभोगसभागीतनृत्यादिकपराङ्मुखः । मित्रस्य चिन्तया राजा राज्यचिन्तां च नाकरोत् ॥३७॥ अन्यदा भूपतिश्चित्ते रजन्यामित्यचिन्तयत् । आवली कथिता येन यक्षेशेन महात्मना ॥३८०॥ स हि मित्रप्रतीकारं कथयिष्यति निश्चितम् । विचारयन् मनस्येवं व्यतीयाय निशामसौ ॥३८१।। जाते सूर्योदये राजा जीर्णमन्त्रीश्वरस्य च । 1 A Oम्बरा ज०।

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99