Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore
View full book text
________________
चित्रसेन पद्मावतीचरित्रम् [ १८३-१६१
1
।। १८५ ।।
हेमदण्डमनोहारिध्वजराजिविराजितः समश्रेणिस्थितानेकमचकावलिकान्वितः प्राकारकपिशीर्षालीप्रतोलीप्रतिभासितः कालागुरुतुरुष्कादिप्रोल्लस धूपधूपितः पञ्चवर्ण स्फुरद्ध रिप्रसूनप्रकरराञ्चितः विलोक्यैवम्विधं लोकाः स्तवयन्तीति मण्डपम् । देवाधीशविमानं किं मेदिनीतलमागतम् ॥ १८६॥ क्वचिद्गीतैः क्वचिन्नृत्यैः सङ्गीतविधिभिः क्वचित् । कचिद्वादित्रनिर्घोषैः शोभिते भूपमण्डपे || १८७॥ शुभेहि शुभवेलायां मञ्चकेषु यथोचितम् । उपविष्टा नृपाः सर्वे भूरिभूषणभूषिताः ॥ १८८ ॥ अथ पद्मरथो राजा जगाद जगतीपतीन् । वज्रसाराभिधं चापमस्त्यस्माकं क्रमागतम् ॥ १८६॥ मण्डपस्थमिदं चापमारोपयति यो नृपः । परिणेष्यति मत्पुत्रीं स रूपादिगुणान्विताम् ॥ १६० ॥ एवमाकर्ण्य भूपालाः स्वभुजावल गर्विताः । धनुर्वेदविदो
नाताश्चापारोपणवत्पराः ॥ १३१ ॥
२२ ]
अथ पद्मावती कन्या धन्यंमन्या वराम्बरा ।
1 A ०राजवि० ।
1126311
1
॥ १८४ ॥

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99