Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore

View full book text
Previous | Next

Page 57
________________ १६२-२०१] चित्रसेनपद्मावतीचरित्रम् [२३ उदारस्फारशृङ्गारा सखीजनसमन्विता ॥१९२।। सद्यस्कंग्रथितानेकप्रसूनान कराम्बुजे । घरमालां दधाना च सावधाना बरेक्षणे ।।१९३।। स्वर्णकम्बालसत्पाणिवेत्रधारिपुरस्सरा । मातङ्गगमनायाता स्वयम्वरणमण्डपे ।।१९४॥ यथा दीपशिखा ध्वान्त प्रकाशयति मन्दिरम् । तथा पद्मावती कन्या प्रकाश मण्डपेकरोत् ॥१९५।। बलिष्ठसुभटारोष्यं मण्डपस्थमिदं धनुः । सुकुमारः कुमारोसो कथमारोपयिष्यति ॥१९६॥ इतिचिन्ताकुना कन्या यावञ्चित्ते विचारयेत् । तावद् द्वादशनन्दीनां निर्घोषः समुपस्थितः ॥१९७।। भूपानां मञ्चकस्थानों सावधानहृदां पुरः। नरो त्रधरस्तावदेवमुच्चैरभाषत ॥१९८।। सर्वे मानवनेतारो दातारोपारविक्रमा:। कन्यावरणवान्छा चेद्धनुरारोपबन्तु भोः ।।१९९।। लाटाधिपस्तदोत्तस्थौ कुमारीवरणोत्सुकः । ऊईवीकृत्य भुजादण्ड सुसंवृत्त्योत्सरीयकम् ॥२०॥ समुत्थाय बलं कृत्वा यावधाति धनुर्दिशम् । सावधापं च नापश्यजन्मान्ध इच भूपतिः ।।२०१॥

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99