________________
१६२-२०१]
चित्रसेनपद्मावतीचरित्रम्
[२३
उदारस्फारशृङ्गारा सखीजनसमन्विता ॥१९२।। सद्यस्कंग्रथितानेकप्रसूनान कराम्बुजे । घरमालां दधाना च सावधाना बरेक्षणे ।।१९३।। स्वर्णकम्बालसत्पाणिवेत्रधारिपुरस्सरा । मातङ्गगमनायाता स्वयम्वरणमण्डपे ।।१९४॥ यथा दीपशिखा ध्वान्त प्रकाशयति मन्दिरम् । तथा पद्मावती कन्या प्रकाश मण्डपेकरोत् ॥१९५।। बलिष्ठसुभटारोष्यं मण्डपस्थमिदं धनुः । सुकुमारः कुमारोसो कथमारोपयिष्यति ॥१९६॥ इतिचिन्ताकुना कन्या यावञ्चित्ते विचारयेत् । तावद् द्वादशनन्दीनां निर्घोषः समुपस्थितः ॥१९७।। भूपानां मञ्चकस्थानों सावधानहृदां पुरः। नरो त्रधरस्तावदेवमुच्चैरभाषत ॥१९८।। सर्वे मानवनेतारो दातारोपारविक्रमा:। कन्यावरणवान्छा चेद्धनुरारोपबन्तु भोः ।।१९९।। लाटाधिपस्तदोत्तस्थौ कुमारीवरणोत्सुकः । ऊईवीकृत्य भुजादण्ड सुसंवृत्त्योत्सरीयकम् ॥२०॥ समुत्थाय बलं कृत्वा यावधाति धनुर्दिशम् । सावधापं च नापश्यजन्मान्ध इच भूपतिः ।।२०१॥