Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore

View full book text
Previous | Next

Page 59
________________ २११-२१८] चित्रसेनपद्मावतीचरित्रम् [२५ - - - - - गुप्तवेषधरस्तावद् दृष्टो मित्रयुतः पतिः । ततः कन्या सरोमान्चा जाता मुदितमानसा ॥२१॥ कुमारश्चित्रसेनोपि पश्यन् धनकुतूहलम् । खेदखिन्नान् नृपान सर्वान् वीक्ष्य मित्रान्तिकं गतः॥२१२॥ गत्वेति कथयामास कुमारः स्फारविक्रमः। यदि मित्र तवेच्छा स्याद्धनुरारोपयामि तत् ॥२१३॥ चित्तोत्साहवशेनाहमेवं मन्ये विदाम्बर । भविष्यति ममाभीष्टकार्यसिद्धिश्च साम्प्रतम् ॥२१॥ यत: लघूत्थानान्यविघ्नानि सम्भवत्साधनानि च । कथयन्ति पुरः सिद्धिं कारणान्येव कर्मणाम् ॥२१॥ तथा दृष्टिपूतं न्यसेत् पादं' वस्त्रपूतं जलं पिवेत् । सत्यपूतं वदेद्वाक्यं मनःपूतं समाचरेत् ॥२१६॥ मनस्येवं विमृश्याथ गत्वा कोदण्डसन्निधौ । नमस्कृत्य करे कृत्वा स्मृत्वा चित्ते धनञ्जयम् ।।२१७॥ खड्गपाणिधर मित्र निर्भयं पृष्ठतः स्थिते । चित्रसेनकुमारेण लीलयारोपितं धनुः ॥२१८॥ 12 पाद। 2 A Z पृष्टितः।

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99