Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore

View full book text
Previous | Next

Page 49
________________ ११६-१२७ ] चित्रसेन पद्मावतीचरित्रम् [ १५ अतिस्नेहाकुलः सोपि हृदयस्फोटतो मृतः । दुःसहं हि प्रियादुखं किं पुनः सुतसंयुतम् ॥ ११६ ॥ दानानुमोदनापुण्यप्रभावात् प्रवराशयः । चित्रसेनकुमारोयं सञ्जातो राजनन्दनः || १२० || मोहितो मोहनीयेनाभीष्टरूप विलोकनात् । रत्नसार ! सखा तेसौ मूच्छितस्तेन हेतुना ॥ १२१ ॥ यामूलचूलवृत्तान्तं श्रुत्वा पूर्वभवोद्भवम् । जाता जातिरमृतिस्तस्योपदेशात् प्रवरान्मुनेः ॥ १२२ ॥ करामलकवत्सर्वं पश्यन् पूर्वभनं निजम् । प्रमोदाच्चित्रसेनस्तं ववन्दे मुनिपुङ्गवम् ॥ १२३ ॥ यतीश ! यत्त्वयावाचि सत्यं ज्ञातं मयाखिलम् | / परं केन प्रकारेण मिलिष्यति मम प्रिया ॥ १२४ ॥ केवल्यूचेधुना सा तु नरद्वेषेण वर्त्तते । स्त्रीणां स्तुतिपरा नित्यं पुंसां निन्दापरायणा ॥ १२५॥ कुमारोकथयन्नाथ ! निन्दायाः कारणं किमु । मुर्निराह भवे पूर्वे जलार्थं प्रेषितो भवान् ॥ १२६ ॥ दावाग्नितापिता हंसी मनस्येवं व्यचिन्तयत् । निःस्नेहो बालकांस्त्यक्त्वा जलव्याजात् पलायितः ॥ १२७ ॥ तेन वैरेण सा कन्या नरद्वेषपरायणा । 1

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99