________________
११६-१२७ ] चित्रसेन पद्मावतीचरित्रम्
[ १५
अतिस्नेहाकुलः सोपि हृदयस्फोटतो मृतः । दुःसहं हि प्रियादुखं किं पुनः सुतसंयुतम् ॥ ११६ ॥ दानानुमोदनापुण्यप्रभावात् प्रवराशयः । चित्रसेनकुमारोयं सञ्जातो राजनन्दनः || १२० || मोहितो मोहनीयेनाभीष्टरूप विलोकनात् । रत्नसार ! सखा तेसौ मूच्छितस्तेन हेतुना ॥ १२१ ॥ यामूलचूलवृत्तान्तं श्रुत्वा पूर्वभवोद्भवम् । जाता जातिरमृतिस्तस्योपदेशात् प्रवरान्मुनेः ॥ १२२ ॥ करामलकवत्सर्वं पश्यन् पूर्वभनं निजम् । प्रमोदाच्चित्रसेनस्तं ववन्दे मुनिपुङ्गवम् ॥ १२३ ॥ यतीश ! यत्त्वयावाचि सत्यं ज्ञातं मयाखिलम् |
/
परं केन प्रकारेण मिलिष्यति मम प्रिया ॥ १२४ ॥ केवल्यूचेधुना सा तु नरद्वेषेण वर्त्तते । स्त्रीणां स्तुतिपरा नित्यं पुंसां निन्दापरायणा ॥ १२५॥ कुमारोकथयन्नाथ ! निन्दायाः कारणं किमु । मुर्निराह भवे पूर्वे जलार्थं प्रेषितो भवान् ॥ १२६ ॥ दावाग्नितापिता हंसी मनस्येवं व्यचिन्तयत् । निःस्नेहो बालकांस्त्यक्त्वा जलव्याजात् पलायितः ॥ १२७ ॥ तेन वैरेण सा कन्या नरद्वेषपरायणा ।
1