Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore
View full book text
________________
८२-६०]
चित्रसेनपद्मावतीचरित्रम्
पूजयित्वा जिनाधीशं यावत् स्तोत्रैः स्तवीत्यसौ । तावत् पद्मावती कन्या स्त्रीवृन्दालङ्कतागता ।।२।। अग्रतः खड्गहस्ताश्च नरवेषधराङ्गनाः। भूरिहक्कारवैोरैलॊकान् वित्रासयन्ति च ॥८३॥ भयभीता जनाः सर्वे नष्टा यावदिशोदिशम् । सागरः शुकरूपस्थीपश्यत्तस्याः कुतूहलम् ॥८४॥ तद्रपविमोहितश्चित्ते सूत्रधारो व्यचिन्तयत् । किन्नरी नागकन्या वा विद्याधर्यथवा किमु ॥८५।। धात्रा यदीदृशी सृष्टा कथं दोषेण दूषिता । विचारं सागराह्वानश्चकारैवं स्वचेतसि ॥८६॥ पुरुषद्वेषदोषेण चारुरूपादिका गुणाः । अस्या भूपालनन्दन्या जाता सर्वे निरर्थकाः ।।८७॥ यथा दीपं विना गेहं यथा सूर्यं विना दिवा । पुत्रं विना कुलं यद्वत्तथा नारी पति विना ॥८८|| एवं विचिन्तयंश्चित्ते यावत्तिष्ठति सागरः । शान्तितीर्थङ्करं नत्वा कन्या तावद् गृहं गता ॥८६॥ कृत्वा यात्रां जिनेशस्य भक्ति साधर्मिकस्य च । सागरः कृतकृत्योथाजगाम निजमन्दिरम्" Holl 1z निज मन्दिरम् ।

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99