Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore
View full book text
________________
चित्रसेनपद्मावतीचरित्रम्
[२३-३०
-
भृकुटीभीषणो राजा यावजातः समान्तरे । तावन्नन्तुं समायातः कुमारो भूपतेः क्रमौ ॥२३॥ भूपः पराङ्मुखीभूयादापयत्तस्य रोषतः ।। पत्रत्रितयसम्बद्धं बीटकं नन्दनस्य च ॥२४॥ वज्रपात इवाकस्माद्दुःखितश्चिन्तयत्यदः । अपराधं विना तातो रुष्टः किमु ममोपरि ॥२५।। अथवा न पितुर्दोषो दोषोयं मम कर्मणाम् । पूर्वाचीर्णानि कर्माणि समायान्त्युदयं यतः ॥२६॥ यद् यावद् यादृशं येन कृतं कर्म शुभाशुभम् । तत् तावत् तादृशं तस्य फलं यच्छति देहिनः ॥२७॥ कृतकर्मक्षयो नास्ति कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥२८॥ विचिन्त्येति निजे चिचे समालम्ब्य च धीरताम् । प्रणम्य भूपतेः पादौ नन्तुं मातुः क्रमौ गतः ॥२६॥ राजरोष समाकर्ण्य सुतोक्तं साथ दुःखिता। पृथिव्यां पतिता मूच्छौं गता सुस्थोपचारतः ॥३०॥ ग्रामे वासो दरिद्रत्वं मूर्खत्वं :कलहो गृहे । 1 A स्मा दुरित।
--

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99