SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ चित्रसेनपद्मावतीचरित्रम् [२३-३० - भृकुटीभीषणो राजा यावजातः समान्तरे । तावन्नन्तुं समायातः कुमारो भूपतेः क्रमौ ॥२३॥ भूपः पराङ्मुखीभूयादापयत्तस्य रोषतः ।। पत्रत्रितयसम्बद्धं बीटकं नन्दनस्य च ॥२४॥ वज्रपात इवाकस्माद्दुःखितश्चिन्तयत्यदः । अपराधं विना तातो रुष्टः किमु ममोपरि ॥२५।। अथवा न पितुर्दोषो दोषोयं मम कर्मणाम् । पूर्वाचीर्णानि कर्माणि समायान्त्युदयं यतः ॥२६॥ यद् यावद् यादृशं येन कृतं कर्म शुभाशुभम् । तत् तावत् तादृशं तस्य फलं यच्छति देहिनः ॥२७॥ कृतकर्मक्षयो नास्ति कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥२८॥ विचिन्त्येति निजे चिचे समालम्ब्य च धीरताम् । प्रणम्य भूपतेः पादौ नन्तुं मातुः क्रमौ गतः ॥२६॥ राजरोष समाकर्ण्य सुतोक्तं साथ दुःखिता। पृथिव्यां पतिता मूच्छौं गता सुस्थोपचारतः ॥३०॥ ग्रामे वासो दरिद्रत्वं मूर्खत्वं :कलहो गृहे । 1 A स्मा दुरित। --
SR No.010184
Book TitleChitrasena Padmavati Charitra
Original Sutra AuthorN/A
AuthorMulraj Jain
PublisherJain Vidya Bhavan Lahore
Publication Year1942
Total Pages99
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy