________________
३१-३६ ]
चित्रसेनपद्मावतीचरित्रम्
[ ५
पुत्रैः सह वियोगश्च दुःसहं दुःखपञ्चकम् ||३१|| रुदन्त्युच्चैः स्वरं शोकातुरा नन्दनवत्सला । पुत्रमोहाद्ददौ रत्नसप्तकं सम्बलाय सा ||३२|| एकाकी खड्गमादाय प्रणम्य जननीं निजाम् । चचाल पुरतो मार्गे सोसम्पूर्ण लोचनः ||३३|| यदुक्तम्
जणणी जम्मुत्पत्ती पच्छिमनिद्दा सुभासिअं वयणं । मणइटुं माणुस्सं पंच विदुक्खेहिं मुति ||३४|| धीरत्वमवलम्ब्याथ स गच्छन्नगरान्तरा । स्मृत्वा मन्त्रिसुतं मित्रं मन्त्री श्वरगृहे गतः ||३५|| रत्नसाराख्यमित्रेण पृष्टो भूपतिनन्दनः । चिन्तातुरमना मित्र दृश्यसे केन हेतुना ॥ ३६ ॥ कथं ग्रामान्तरं गन्तुं प्रवृत्तः सेवकोज्झितः । निवेद्य मे निजोदन्तं निःशल्यं मानसं कुरु || ३७॥ सुहृदि निरन्तरचित्ते गुणवति भृत्ये प्रियासु नारीषु । स्वामिनि च सुप्रसने निवेद्य दुःखं सुखी भवति ॥ ३८॥ ततः सकलवृत्तान्तमाकर्ण्य कुमरोदितम् । बभूव रत्नसारोपि मित्रदुःखेन दुःखितः ॥ ३६ ॥