________________
चित्रसेनपद्मावतीचरित्रम्
[४०-४४
कुमारः प्राह हे मित्र त्वया स्थेयं गृहे सुखम् । अहं देशान्तरं यामि अभिमानधनः पुनः ॥४०॥ जगाद रत्नसारोपि तिष्ठामि सदने कथम् । सुखं वा यदि वा दुःखं सोढव्यञ्च त्वया सह ॥४१॥ हेज हियाली परिखिइ खल वयणे जल साउ। मित्त कुवेला' परिखिह सुहडु लागइ घाउ ॥४२॥ पितमातृकुटुम्बादिस्नेह दत्वा जलाञ्जलिम् । दृढीकृत्य निजं चित्तं प्रच्छनौ चलितो ततः ॥४३॥ अविलम्बप्रयाणेन ग्रामाकरपुराणि तौ । मुवा' भीमाटवीं प्राप्तौ स्थितौ सायं तरोस्तले ॥४४॥ मार्गश्रान्तशरीरस्तु सुप्तो भूपतिनन्दनः । सावधानमना मन्त्रिसुतः प्राहरिकः स्थितः ॥४५॥ जाग्रत् मन्त्रिसुतो दूरे शुश्रावं किमरध्वनिम् । विस्मितो भूपतेः पुत्रं विवोध्याकथयत्स तम् ॥४६॥ तं श्रुत्वा कुमरोवादीत स्वभावात् कौतुकप्रियः । अहं तत्र ममिष्यामि स्थातव्यश्च त्वयात्र भोः ॥४७॥ मन्त्रिपुषी बमाणे तं न त्वामेकाकिनं पुनः ।
1A कुवेला। 22 पितु०। BA पुस्का।