SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ २] चित्रसेनपद्मावतीचरित्रम् [७-१४ - - मनोभीष्टाशना भव्यवासनाः प्रवरासनाः । व्यवहारिजना यत्र वसन्ति धनदोपमाः ॥७॥ न्यायवान् शीलसम्पन्नः प्रजापालनलालसः । उदारमानसस्तत्र वीरसेननरेश्वरः ॥८॥ रूपश्रीसुन्दराकारा भाग्यसौभाग्यमन्दिरम् । रनमाला प्रिया तस्य सतीजनमतल्लिका ॥६॥ शशीव सज्जनानन्दी रूपनिर्जितमन्मथः । दाता शूरस्तयोः पुत्रः कुमारश्चित्रसेनकः ॥१०॥ वासवस्य गुरुमन्त्री श्रेणिकस्याभयो यथा । बुद्धिसाराभिधस्तस्य जातो मन्त्रीश्वरस्तथा ॥११॥ रत्नसारः सुतस्तस्य रत्नसारशरीररुक् । कुशाग्रतीक्ष्णधीः' सौम्यः सर्वशास्त्रविशारदः ॥१२॥ अन्योन्यमभवत्प्रीती राजसूमन्त्रिपुत्रयोः । मध्याहोत्तरकालीना छायेव ववृधे च सा ॥१३॥ नगरान्तर्भमन्तौ तौ रममाणौ परस्परम् | गृहोपरि समारुह्य विलोकन्ते पुराङ्गनाः ॥१४॥ समीक्ष्याथासमीचीनं विचार्य चतुरैनैरैः। 1 A. तीक्ष्यीधीः। 2zते ।
SR No.010184
Book TitleChitrasena Padmavati Charitra
Original Sutra AuthorN/A
AuthorMulraj Jain
PublisherJain Vidya Bhavan Lahore
Publication Year1942
Total Pages99
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy