________________
॥ श्रीवीतरागाय नमः ॥
श्रीबुद्धिविजयरचितम् चित्रसेनपद्मावतीचरित्रम्
कल्याणकमला गेहं निःसन्देहं ' सदोदयम् । कल्याणविलसद्देहं वन्देहं वृषभप्रभुम् ॥ १ ॥ पुण्डरीक महानन्दं पुण्डरीकवराम्बकम् । पुण्डरीकगणाधीशं नत्वा तवाकरं मुदा ||२|| महासेनस्य शीलेन महासेनासमुन्नतेः । चित्रसेननरेशस्य चित्रकारिकथां ब्रुवे ॥३॥ जम्बुद्वीपाभिधे द्वीपे क्षेत्रे भरतनामनि । वसुधातलविख्यातो देशो नाम्ना कलिङ्गकः || ४ || धनधान्यगृहोदारं गजगोकुलसङ्कुलम् ।
तत्रास्ति क्षितिशृङ्गारं वसन्तपुरपत्तनम् ॥५॥ यत्र काशः सरितीरे कलिर्यत्र वनान्तरे | मारिः सारिफले यत्र न पुनर्नगरीजने ॥६॥
12 निःसन्देहसदो० ।