Book Title: Chaityavandanmahabhashyam
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 373
________________ ચૈત્યવદન મહાભાષ્ય — व्याख्या- श्रूयत आकर्ण्यते जिनेन्दप्रवचने । किं तदित्याह-दुर्गतिनारी दारिद्र्योपहतयोषा । जगद्गुरोस्त्रिभुवननाथस्य । सिन्दुवारकुसुमैर्निर्गुडपुष्पैः करणभूतैः। या पूजाऽर्चनं तत्र यत्प्रणिधानं पूजां करोमीत्येवंविधमैकाग्र्यं तत्पूजाप्रणिधानम् । इह च कुसुमशब्दसापेक्षत्वेऽपि पूजाशब्दस्य प्रणिधानशब्देन सह समासो देवदत्तस्य गुरुकुलमित्यादाविव न दोषायेति । तेन पूजाप्रणिधानेन करणभूतेन । पूजां विनैव भावमात्रेणैवेति हदयम् । उपपन्नोत्पना । त्रिदशलोके स्वर्गे । इत्यक्षरार्थः। कथानकं पुनरेवं पूज्याः प्रतिपादयन्ति-श्रीमन्महावीरवर्धमानस्वामी इक्ष्वाकुकुलनन्दन प्रसिद्धसिद्धार्थपार्थिवपुत्रः पुत्रीयितनिखिलभुवनजनो जनितजनमनश्चमत्कारगुणग्रामो . ग्रामाकरनगरपुरपौरपृथु पृथिवीं विहरत्रन्यदा कदाचित्काकन्दीनामिकायां पुरि समाजंगाम। तत्र चामरवरविसरविरचितसमवसरणमध्यवर्तिनि भगवति धर्मदेशनां विदधति; तथा नानाविधयानवाहनसमारूढप्रौढपत्तिपरिगते सिन्धुरस्कन्धमधिष्ठिते छत्रच्छन्ननभस्तले मागधोद्गीतगुणगणे भेरीभाकारभरिताम्बरतले नरपतौ, तथा द्विजवरवैश्यादिके पुरजनें, तथा गन्धधूपपुष्पपटलप्रभृतिपूजापदार्थ-व्याकरकिङ्करीनिकरपरिगते विविधवसनाभरणरमणीयतरशरीरे नगरनारीनिकरे, भगवतो वन्दनार्थ प्रव्रजति सति एकया वृद्धदरिद्रयोषिता जलेन्धनाद्यर्थं बहिर्निर्गतया कश्चिन्नरः पृष्टः- “क्वायं लोक एकमुखस्त्वरितं याति ?" । तेनोक्तम्- “जगदेकबान्धवस्य देहिनां जन्मजरामरणरोगशोकदुर्गत्यादिदुःखच्छिदुरस्य श्रीमन्महावीरस्य वन्दनपूजाद्यर्थः । ततस्तच्छ्रवणात्तस्या भगवति भक्तिरभवत्, अचिन्तयच्च- “अहमपि भगवतः पूजार्थं यत्नं करोमि, केवलमहमतिदुर्गता पुण्यरहिता विहिता पूजाङ्गवर्जितेति” । ततोऽरण्यदृष्टानि मुधालभ्यानि सिन्दुवारकुसुमानि स्वयमेव गृहीत्वा भक्तिभरनिर्भराङ्गी-अहो धन्या पुण्या कृतार्था कृतलक्षणाहं, सुलब्धं मम जन्म, जीवितफलं चाहमवाप्तेतिभावनया पुलककण्टकितकाया प्रमोदजलप्लावितकपोला भगवन्तं प्रति प्रयान्ती समवसरणकाननयोरन्तराल एव वृद्धतया क्षीणायुष्कतया च झगिति मृतिमुपागता। ततोऽसावविहितपूजापि पूजाप्रणिधानोल्लसितमानसतया देवत्वमवाप्तवती । ततस्तस्याः कडेवरमवनिपीठलोठितमवलोक्यानुकम्पापरीतान्तःकरणो लोको मूर्च्छितेयमिति मन्यमानोऽम्भसा सिषेच । ततस्तामपरिस्पन्दामवलोक्य लोको भगवन्तं प्रपच्छ- “भगवनसौ वृद्धा किं मृतोत जीवतीति” । भगवांस्तु व्याजहार यथा-मृतासौ देवत्वं चावाप्ता । ततः ૩૩૮

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452