________________
ચૈત્યવદન મહાભાષ્ય
— व्याख्या- श्रूयत आकर्ण्यते जिनेन्दप्रवचने । किं तदित्याह-दुर्गतिनारी दारिद्र्योपहतयोषा । जगद्गुरोस्त्रिभुवननाथस्य । सिन्दुवारकुसुमैर्निर्गुडपुष्पैः करणभूतैः। या पूजाऽर्चनं तत्र यत्प्रणिधानं पूजां करोमीत्येवंविधमैकाग्र्यं तत्पूजाप्रणिधानम् । इह च कुसुमशब्दसापेक्षत्वेऽपि पूजाशब्दस्य प्रणिधानशब्देन सह समासो देवदत्तस्य गुरुकुलमित्यादाविव न दोषायेति । तेन पूजाप्रणिधानेन करणभूतेन । पूजां विनैव भावमात्रेणैवेति हदयम् । उपपन्नोत्पना । त्रिदशलोके स्वर्गे । इत्यक्षरार्थः। कथानकं पुनरेवं पूज्याः प्रतिपादयन्ति-श्रीमन्महावीरवर्धमानस्वामी इक्ष्वाकुकुलनन्दन प्रसिद्धसिद्धार्थपार्थिवपुत्रः पुत्रीयितनिखिलभुवनजनो जनितजनमनश्चमत्कारगुणग्रामो . ग्रामाकरनगरपुरपौरपृथु पृथिवीं विहरत्रन्यदा कदाचित्काकन्दीनामिकायां पुरि समाजंगाम। तत्र चामरवरविसरविरचितसमवसरणमध्यवर्तिनि भगवति धर्मदेशनां विदधति; तथा नानाविधयानवाहनसमारूढप्रौढपत्तिपरिगते सिन्धुरस्कन्धमधिष्ठिते छत्रच्छन्ननभस्तले मागधोद्गीतगुणगणे भेरीभाकारभरिताम्बरतले नरपतौ, तथा द्विजवरवैश्यादिके पुरजनें, तथा गन्धधूपपुष्पपटलप्रभृतिपूजापदार्थ-व्याकरकिङ्करीनिकरपरिगते विविधवसनाभरणरमणीयतरशरीरे नगरनारीनिकरे, भगवतो वन्दनार्थ प्रव्रजति सति एकया वृद्धदरिद्रयोषिता जलेन्धनाद्यर्थं बहिर्निर्गतया कश्चिन्नरः पृष्टः- “क्वायं लोक एकमुखस्त्वरितं याति ?" । तेनोक्तम्- “जगदेकबान्धवस्य देहिनां जन्मजरामरणरोगशोकदुर्गत्यादिदुःखच्छिदुरस्य श्रीमन्महावीरस्य वन्दनपूजाद्यर्थः । ततस्तच्छ्रवणात्तस्या भगवति भक्तिरभवत्, अचिन्तयच्च- “अहमपि भगवतः पूजार्थं यत्नं करोमि, केवलमहमतिदुर्गता पुण्यरहिता विहिता पूजाङ्गवर्जितेति” । ततोऽरण्यदृष्टानि मुधालभ्यानि सिन्दुवारकुसुमानि स्वयमेव गृहीत्वा भक्तिभरनिर्भराङ्गी-अहो धन्या पुण्या कृतार्था कृतलक्षणाहं, सुलब्धं मम जन्म, जीवितफलं चाहमवाप्तेतिभावनया पुलककण्टकितकाया प्रमोदजलप्लावितकपोला भगवन्तं प्रति प्रयान्ती समवसरणकाननयोरन्तराल एव वृद्धतया क्षीणायुष्कतया च झगिति मृतिमुपागता। ततोऽसावविहितपूजापि पूजाप्रणिधानोल्लसितमानसतया देवत्वमवाप्तवती । ततस्तस्याः कडेवरमवनिपीठलोठितमवलोक्यानुकम्पापरीतान्तःकरणो लोको मूर्च्छितेयमिति मन्यमानोऽम्भसा सिषेच । ततस्तामपरिस्पन्दामवलोक्य लोको भगवन्तं प्रपच्छ- “भगवनसौ वृद्धा किं मृतोत जीवतीति” । भगवांस्तु व्याजहार यथा-मृतासौ देवत्वं चावाप्ता । ततः
૩૩૮