Book Title: Anusandhan 2013 03 SrNo 60
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जान्युआरी - २०१३
१५५
हतश्रीमंगश्रेणिरेणीदृशाभि-रभीक्ष्णं वने भ्राम्यती चाऽत्र मन्ये । निजस्वच्छचक्षुच्छवीनां वितानैः, शशाङ्केऽपि कश्चित् सलज्जः स एव ॥३८॥ वयं चिन्तयामः किमस्या वशानां, सुवर्णं सुवर्णं तनौ जीववर्ण्यम् । असंसह्य दंदह्यते किं कृशानौ, यदीालवस्तापसन्तापभाजः ॥३९।। किमन्यद् वदामः सदा मर्त्यलोक, इदं पूरपूर्वाङ्गनायाः स्वरूपम् । समीक्ष्येव नो यन्ति चाऽऽकाशनार्यो, निजास्यं भृशं दर्शयन्ते सलज्जाः ॥४०॥
इति नार्यः ॥ अतिचारुहयाः सहस्रशः, सुरयाः स्वच्छसमीरणभ्रमाः । विविधा अपि पञ्चवर्णका, व्यतिभातेत नु यत्र सन्ततम् ॥४१॥ [प्रबोधता] समदा द्विरदा विरेजिरे, शतशो यत्र पुरे परायके । गिरयो नु भयाद् बिडौजसः, किमु वासाय नु जङ्गमा इमे ॥४२॥ प्रतिपाद्यगजाः पृथुश्रियं, कासारप्रसरत्सदर्थिने । निजहस्तपतज्जलच्छलाद्, ददते स्वस्तिजलानि शाश्वतम् ॥४३॥ करिणः करचालनोपधे-रधिकं साधुजनाननारतम् । प्रणमन्मनुजा वयं यथो-पदिशन्तीव चयन्ति तेऽर्हणाम् ॥४४॥ बहवोऽपि हि चित्कृत्कृता, खुरगाश्चत्वरगा द्विपा अपि । कपिसारसिकैः प्रतिगृहं, प्रतिभित्तिप्रतिपत्तिकारिता ॥४५॥ बहुपाटलशालभञ्जिका, मुखचन्द्रेषु चललक्ष्मणकाः । यदनेकनिवासवासिभि-हरिभिः कुक्षिगतीकृताः किमु ॥४६|| पवित्रितायां वरपूज्यपादै-र्गतप्रमादैः किल यत् पुरीव । वर्धापनाय प्रमदातिरेक-विवेकसोत्कप्रमदाभिराशु ॥४७॥ [उपजातिः] कस्तूरिकापूरकरम्बितो य, उच्छालितः स्वच्छतरः सुगुच्छः । प्राप्तः स्थिरत्वं गगने सलक्ष्मा, स एव शुभ्रांशुरभङ्गुर श्रीः ॥४८॥ युग्मम् ।। इत्थमिदं विविधोक्तिभिरुक्तं, भासुरमाशु रमारुचियुक्तम् । निर्जरनाथपुरीरमणीयं, यन्नगरं नवरङ्गसरागम् ॥४९॥ [दोधक] श्रीपूज्यपादक्रमणारविन्द-संपाविते देवकपत्तनाख्ये । साक्षाददो देवकपत्तनेऽन्व-भिख्यातिविख्यातिमति प्रतीते ॥५०॥ [उपजाति:]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244