Book Title: Anusandhan 2013 03 SrNo 60
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१५८
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
तपोपधानादिकवाहनं चा-ऽतिवर्यतुर्यव्रतपालनं च । श्रद्धावतां बुद्धिमतामितीह(हाऽ-) भवत् परं संप्रति धर्मकृत्ये ॥७२।। सना जिना_रचनां धनाढ्या, बाढं वितन्वन्ति दृढीभवन्तः । अचीकरय्ये(न्ये?) परमेष्ट्यगारे, श्रा(स्ना)त्राण्यलं षष्ट्यधिकं विहारे ॥७३।। यत्पर्वणोऽस्त्यङ्गतया सवर्णं, चराचरे न व्यवहारतोऽपि । यथा यकारस्य यपेष्टपीह, किं नाम सावर्ण्यमलं दधाति(?) ॥७४॥ क्रियागुप्तम् ।। समागमत् पर्युषणा सपर्व, क्रमेण तत् तादृगमन्दगर्वम् । सुपर्वसर्वस्वमिदं प्रधानं, किमुत्तमं वास्तुमतां निधानम् ॥७५।। सामाजिकाः श्राद्धजनाः समग्रा, गत्वेशितुः सद्मनि धामभाजि । क्रमादमारेः पटहारवाणि, व्यचीकरन्नुन्नतये वराणि ॥७६।। श्रीकल्पसूत्रं स्वगृहे च लात्वा, निशीथिनीजागरणं विधाय । प्रातर्गुरूणां चरणे प्रवीणा, आगत्य सन्मङ्गलगानपूर्वम् ॥७७|| शृण्वन्ति ते भव्यनवप्रभावना-विभावनां भावनया विधाय । कल्पद्रुकल्पं वमिताल्पजल्पं, श्रीकल्पसूत्रं सततं पवित्रम् ॥७८॥ पारेगिरां चारु तपस्तपन्तो, निरस्य पापं विरजीभवन्तः । दानं निदानं पुनरुल्लसन्तो, ददुर्न दूनाः सुगतेर्हसन्तः ॥७९।। सांवत्सरं दानममानभक्त्या, मिथः प्रयच्छन्ति यथेच्छमुच्चैः । अकारयन्नुग्रसमग्रपारणा-विधि तथा धर्मनिधि तथाविधम् ॥८०॥ इत्याद्यनन्तैः सुकृतैः समर्थ-मर्थिव्रजानामपुपूरदर्थम् । यत् पर्व तच्चारुमहामहालि-युतं व्यतीयाय ततोऽधुना [हि] ॥८१॥ जिनेश्वराणां सदनेषु भूयो, पूजा महौजा बहुभक्तिपूर्वम् । दिग्सङ्ख्यकैः सप्तयुतैश्च भेदैः, पञ्चोत्तरा विंशतिराविरासीत् ॥८२।। तथाऽऽह्निकं संप्रति धर्मकृत्यं, संजायते साधु समेधमानम् । ममाऽपि सातं सपरिच्छदस्य, श्रीतातनामस्मरणानुभावात् ।।८३।।
॥ अथ गुरुवर्णनम् ॥ नाऽहं प्रभो! किं करवाणि वाणी-प्रसादमासाद्य च किङ्करस्ते । तव प्रभावात् स्तुतिमुत्तमां त-दमन्दमेधा इव मन्दमेधाः ॥८४||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244