SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १५८ अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ तपोपधानादिकवाहनं चा-ऽतिवर्यतुर्यव्रतपालनं च । श्रद्धावतां बुद्धिमतामितीह(हाऽ-) भवत् परं संप्रति धर्मकृत्ये ॥७२।। सना जिना_रचनां धनाढ्या, बाढं वितन्वन्ति दृढीभवन्तः । अचीकरय्ये(न्ये?) परमेष्ट्यगारे, श्रा(स्ना)त्राण्यलं षष्ट्यधिकं विहारे ॥७३।। यत्पर्वणोऽस्त्यङ्गतया सवर्णं, चराचरे न व्यवहारतोऽपि । यथा यकारस्य यपेष्टपीह, किं नाम सावर्ण्यमलं दधाति(?) ॥७४॥ क्रियागुप्तम् ।। समागमत् पर्युषणा सपर्व, क्रमेण तत् तादृगमन्दगर्वम् । सुपर्वसर्वस्वमिदं प्रधानं, किमुत्तमं वास्तुमतां निधानम् ॥७५।। सामाजिकाः श्राद्धजनाः समग्रा, गत्वेशितुः सद्मनि धामभाजि । क्रमादमारेः पटहारवाणि, व्यचीकरन्नुन्नतये वराणि ॥७६।। श्रीकल्पसूत्रं स्वगृहे च लात्वा, निशीथिनीजागरणं विधाय । प्रातर्गुरूणां चरणे प्रवीणा, आगत्य सन्मङ्गलगानपूर्वम् ॥७७|| शृण्वन्ति ते भव्यनवप्रभावना-विभावनां भावनया विधाय । कल्पद्रुकल्पं वमिताल्पजल्पं, श्रीकल्पसूत्रं सततं पवित्रम् ॥७८॥ पारेगिरां चारु तपस्तपन्तो, निरस्य पापं विरजीभवन्तः । दानं निदानं पुनरुल्लसन्तो, ददुर्न दूनाः सुगतेर्हसन्तः ॥७९।। सांवत्सरं दानममानभक्त्या, मिथः प्रयच्छन्ति यथेच्छमुच्चैः । अकारयन्नुग्रसमग्रपारणा-विधि तथा धर्मनिधि तथाविधम् ॥८०॥ इत्याद्यनन्तैः सुकृतैः समर्थ-मर्थिव्रजानामपुपूरदर्थम् । यत् पर्व तच्चारुमहामहालि-युतं व्यतीयाय ततोऽधुना [हि] ॥८१॥ जिनेश्वराणां सदनेषु भूयो, पूजा महौजा बहुभक्तिपूर्वम् । दिग्सङ्ख्यकैः सप्तयुतैश्च भेदैः, पञ्चोत्तरा विंशतिराविरासीत् ॥८२।। तथाऽऽह्निकं संप्रति धर्मकृत्यं, संजायते साधु समेधमानम् । ममाऽपि सातं सपरिच्छदस्य, श्रीतातनामस्मरणानुभावात् ।।८३।। ॥ अथ गुरुवर्णनम् ॥ नाऽहं प्रभो! किं करवाणि वाणी-प्रसादमासाद्य च किङ्करस्ते । तव प्रभावात् स्तुतिमुत्तमां त-दमन्दमेधा इव मन्दमेधाः ॥८४|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy