________________
जान्युआरी - २०१३
१५७
॥ अथ प्रातवर्णनम् ॥ दिशि दिशि भृशं तारास्तारानचारिमतां दधुः, सुरपरिवृढस्त्रीणां हारच्युता इव मौक्तिकाः । विधुरपि पुनर्लानच्छायो विहायसि राजति, तिमिरनिकरः शुभ्रीभावं दधाति चिरन्तनः ॥६४॥ [हरिणी] रविविरहितामेतामेकाकिनीमनिशं विधुरधिकनलिनी तापं तापं मुधा यदपीडयत् । तरुणिररुणश्चन्द्रं सान्द्रार्चिषा ननु पर्यभूत्], प्रतिदिनमदः स्मारं स्मारं कृतं खलु भुज्यते ॥६५|| वियति चतुरो यामान् यावद् युगान्युडुभिः सममजनि रजनीनाथो राजा निजेन निजेच्छया । उडुपरिवृतः सोऽपि क्षुण्णः क्षणेन रणे रवेविरहिविधुरश्रेणिकारी भृशं न सुखं लभेत् ॥६६।। समुदमुदयीभावं दध्रुः कुशेशयपङ्क्तयः, सरससरसीवापीकूपा अपि प्रसभं बभुः । विलसति सुखं हर्षोत्कर्षं रथाङ्गयुगं मिथो, . गतवति तमोराज्ये प्राज्ये न कः सुखमेधते ॥६७|| उदयदरुणस्फारैस्तारैरखण्डिततण्डुलैः, किमु समुदिता वृद्धा वर्धापयन्ति दिशो भृशम् । जय जय जगद्वन्धो! शङ्खध्वनिच्छलतो ध्रुवं, ददुरिति पृथु प्रातचर्चाशीव(श्चाशीर्व)चांसि विहायसि ॥६८।। इति प्रभाते सहसैव जाते, पार्षद्यभूयःसमुदायभाजि । अतीव[व]र्ये वणिजां समाजे, समागते तत्त्वततीबुभुत्सौ ॥६९॥ [उपजातिः] स्वाध्यायतः संयमशुद्धयेऽत्र, श्रीपञ्चमाझं समुदं सरङ्गम् । व्याख्यानतः ख्यातिकरं तदेव, सदैवतं कोविदवृन्दवन्द्यम् ॥७०|| वाचंयमानां धृतसंयमानां, क्षमारमाणां विनयान्वितानाम् । नानाविधं बन्धुरपाठनं च, क्रमेण योगोद्वहनं घनं च ॥७१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org