SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १५६ अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ ॥ अथेतो नगरवर्णनम् ॥ भृशं विशालाऽपि हि नो विशाला, जनानवन्ती ह्यपि नो अवन्ती । तथा पृथुद्वारवतीह विष्व-गियं नवद्वारवती तथापि ॥५१।। श्रीशान्तितीर्थाधिपतेविहारो, बभस्ति यत्रेव गभस्तिरेकः । समस्तसत्त्वेहितसिद्धिवृद्ध्यै, निधानमुरूवलये किमेषः ॥५२॥ यस्मै नमः स्मेरमुखा विशिष्य, चक्रुः सहर्षाः पुरुषाः प्रभाते । संसारभीता इव किं विनीता, स्वस्वामिनेवाऽनुचरा इवोच्चैः ॥५३।। यत्राऽऽर्हताः शाश्वतवीतरागा(ग?)-प्रणीतधर्मैकसुनर्मरागाः । वैराग्यरङ्गा भृशसाधुसङ्गाः, शरीरसौन्दर्यतरैरनङ्गाः ॥५४॥ सम्यक्त्वरत्ना धृतयत्नपूराः, सदा सदाचारविचारशूराः । वदान्यभावाल्पितकल्पशाखि-सद्रोहणामहँगवीमुखाश्च ॥५५॥ पाठान्तरम्(?) ।। न सन्त्यदः कामगवीसुरद्रु-चिन्तामणिरोहणसानुमन्तः । शङ्केऽदसीयाऽऽस्तिकसौवदान्या-दिवाऽधिकं किं किल लज्जमानाः ॥५६।। प्राण दशार्णं वसनार्णमेव, न कम्बलार्णं न तु वत्सरार्णम् । ऋणार्णकं वत्सतरार्णमेवं, न कस्यचिन्नाम जनस्य भूयः ॥५७॥ परम्परा यत्र जिनेश्वराणां, यथोत्तरं वर्यतरा विरेजे । इतीव नः पादयुगार्चनेन, यथोत्तरं चारुफलानि च स्युः ।।५८|| तथा पुनर्लालपुरे जिनानां, सौधत्रयी कान्तिमयी बभस्ति । भवार्णसांराशिपतत्रिलोकी-नृरक्षणायैव तरीत्रयीव ॥५९॥ श्रीतातपादक्रमणारविन्दा-भिवन्दनासक्तगृहस्थवृन्दाः । कृपालवः कोमलचारुचित्ता, यस्मिस्ततः साहिपुरादजीर्णात् ॥६०॥ सानन्दवृन्दं सुतराममन्द-माकण्ठमुत्कण्ठितमानसं च । स्फुरत्सुरोमाञ्चमचञ्चलोरु, हर्षप्रकर्ष विहतात्यमर्षम् ॥६१|| ललाटपट्टेऽञ्जलिमञ्जसैव, संयोज्य भक्तिप्रतिपन्नमानसः । अचण्डरोचिः किरणावलीढां, कुमुद्वतीं वै सशिलीमुखामिव ॥६२।। तनोति हीराद्विमलो विनयो, विज्ञप्तिपत्रं विनयावलिप्तः । सद्वादशावर्तकवन्दनेना-ऽभिवन्द्य हृद्यं विधिवद् यथाप्तम् ॥६३|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy