SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१३ १५५ हतश्रीमंगश्रेणिरेणीदृशाभि-रभीक्ष्णं वने भ्राम्यती चाऽत्र मन्ये । निजस्वच्छचक्षुच्छवीनां वितानैः, शशाङ्केऽपि कश्चित् सलज्जः स एव ॥३८॥ वयं चिन्तयामः किमस्या वशानां, सुवर्णं सुवर्णं तनौ जीववर्ण्यम् । असंसह्य दंदह्यते किं कृशानौ, यदीालवस्तापसन्तापभाजः ॥३९।। किमन्यद् वदामः सदा मर्त्यलोक, इदं पूरपूर्वाङ्गनायाः स्वरूपम् । समीक्ष्येव नो यन्ति चाऽऽकाशनार्यो, निजास्यं भृशं दर्शयन्ते सलज्जाः ॥४०॥ इति नार्यः ॥ अतिचारुहयाः सहस्रशः, सुरयाः स्वच्छसमीरणभ्रमाः । विविधा अपि पञ्चवर्णका, व्यतिभातेत नु यत्र सन्ततम् ॥४१॥ [प्रबोधता] समदा द्विरदा विरेजिरे, शतशो यत्र पुरे परायके । गिरयो नु भयाद् बिडौजसः, किमु वासाय नु जङ्गमा इमे ॥४२॥ प्रतिपाद्यगजाः पृथुश्रियं, कासारप्रसरत्सदर्थिने । निजहस्तपतज्जलच्छलाद्, ददते स्वस्तिजलानि शाश्वतम् ॥४३॥ करिणः करचालनोपधे-रधिकं साधुजनाननारतम् । प्रणमन्मनुजा वयं यथो-पदिशन्तीव चयन्ति तेऽर्हणाम् ॥४४॥ बहवोऽपि हि चित्कृत्कृता, खुरगाश्चत्वरगा द्विपा अपि । कपिसारसिकैः प्रतिगृहं, प्रतिभित्तिप्रतिपत्तिकारिता ॥४५॥ बहुपाटलशालभञ्जिका, मुखचन्द्रेषु चललक्ष्मणकाः । यदनेकनिवासवासिभि-हरिभिः कुक्षिगतीकृताः किमु ॥४६|| पवित्रितायां वरपूज्यपादै-र्गतप्रमादैः किल यत् पुरीव । वर्धापनाय प्रमदातिरेक-विवेकसोत्कप्रमदाभिराशु ॥४७॥ [उपजातिः] कस्तूरिकापूरकरम्बितो य, उच्छालितः स्वच्छतरः सुगुच्छः । प्राप्तः स्थिरत्वं गगने सलक्ष्मा, स एव शुभ्रांशुरभङ्गुर श्रीः ॥४८॥ युग्मम् ।। इत्थमिदं विविधोक्तिभिरुक्तं, भासुरमाशु रमारुचियुक्तम् । निर्जरनाथपुरीरमणीयं, यन्नगरं नवरङ्गसरागम् ॥४९॥ [दोधक] श्रीपूज्यपादक्रमणारविन्द-संपाविते देवकपत्तनाख्ये । साक्षाददो देवकपत्तनेऽन्व-भिख्यातिविख्यातिमति प्रतीते ॥५०॥ [उपजाति:] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy