________________
जान्युआरी
२०१३
मेधाविवेधा अपि तावकीन - गुणान्नवा वक्तुमलं बभूव ।
,
यदैकवक्त्रेण तदा स्वयम्भूः स्वयं चतुर्वक्त्र इवाऽजनिष्ट ॥८५॥ तव प्रभावप्रभुतावदित्सु -श्चतुर्मुखो शम्भुरथ त्रिमूर्तिः । आसीदिवाऽधीश्वर! शङ्कयामो, न वेद यो वेदजडश्च तत्त्वम् ॥८६॥ किञ्च
यदि त्रिलोकी गणनापरा स्यात्, तस्याः समाप्तिर्यदि नाऽऽयुषः स्यात् । पारेपरार्ध्यं गणितं यदि स्याद्, गणेयनिःशेषगुणोऽपि स स्यात् ||८७|| दुःशासना दर्शनमीश! ये ते, न कुर्वते राज इतीवमन्याः । हानिस्तु तेषामिव कौशिकाना - मपश्यतां भास्करमीयेव ॥८८॥ यतीश! यत्ते पुरतः कवीशै - रुद्भाव्यते शास्त्रवच: समग्रम् । तदत्र तेषां गणनागुणः स्या[त्], सर्वागमक्षोदविदो महीयान् ॥८९॥ अनूपमं ते वदनं विधाय वेधा व्यधान्नाऽन्यमिह स्वशिल्पम् । अथोपमायै नु विचिन्त्य चेतो, वस्तुद्वयेक्षा सुविशां हि लोलम् ||१०|| अथोपमा चाऽप्युपमेयता च, स्थितं तवाऽऽस्ये द्वितयं यतीश ! । न चित्रमत्रैकसुते यथैव, सज्ज्येष्ठता चाऽपि कनिष्ठता च ॥ ९१ ॥ अवन्दितत्वच्चरणद्वयानां, निदर्शनं चैष शशीव शङ्के ।
>
मुखस्य ते तात ! न चाऽयमीदृग्, धृतं स्य यथा ( ? ) मुत्र युगे हि मुक्तेः ॥९२॥ मुहुः कुहूभस्मनि कश्मलत्वं हर्तुं विधिर्धर्षति शर्वरीशम् । तथापि ते वक्त्ररुचिर्न तस्य, स्वाभाविकात् कृत्रिममन्यदेव ॥ ९३ ॥ वृतो जवात् संयमवामनेत्रया, परीक्षितः साक्षरशुद्धमेधया । विलोकित: सर्वगुणैश्च सम्य - गुपेक्षितो दूषणचक्रवालैः ॥९४॥ यशोमरालं भुवनत्रये च संलालयन् विश्वजनैः सलीलया । कृतार्थयन्नर्थिजनाननारतं, रतिं दधन् कोविदवृन्दमुच्चकैः ||१५|| प्रदीपयन् भास्वरजैनशासनं दधँस्तदाज्ञामतुलां स्वचेतसि । रतीशितारं निरूपाख्यरूपया, संड्रेपयन्नंड्रिकनिष्ठयाऽधिकम् ॥९६॥ विकाशयन्नाशु कुशेशयानि भव्यानि भव्यानिशमोदि हृन्दि । निजप्रतापैः किरणैररीणां श्यामायमानानि मुखानि तन्वन् ॥९७|| तपन्नलं दुस्तरविस्तरं तपः, क्षिपन् पुनः कर्मचयं जयन्नयम् । विचारयन्नागमभावभेदान्, संपाठयन् शिष्यपटिष्ठवृन्दान् ॥९८॥
—
Jain Education International
1
For Private & Personal Use Only
१५९
www.jainelibrary.org