Book Title: Anusandhan 2013 03 SrNo 60
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१८०
अनुसन्धान - ६० : विज्ञप्तिपत्र - विशेषाङ्क खण्ड १
सकललोकमनोहरणोद्यत - मदनमानविमर्दनशङ्कर ! । तव मुनीश ! तपस्तपनोज्ज्वल- त्प्रियमहामहसो रुचिरद्युतेः ॥५३॥ वदनपूर्णनिशाकरशोभया, विजितमम्बुरुहं विविभं (धं?) तपः । समभिसृत्य सृजत्यद एव हि ससुरसंसरसंसरसंसरः ॥५४॥ साधुसाधुजनतागणनाथ!, वीक्ष्य वीक्ष्यभवतो भवतोऽलम् । कान्तकान्तिसदनं वदनं स द्भव्यभव्यशरणस्य शरण्यम् ॥५५॥ [ स्वागता] प्रीतिपुञ्जमनिशं जनवाराः प्राप्नुवन्ति धृतधर्मसुभारा: । मण्डलं वरनभश्चमसस्य, सच्चकोरनिकरा इव वीक्ष्य ॥५६॥ दर्श दर्श तावकीनं तदास्यं चेतांस्युच्चैरुल्लसन्ति (?) दधन्ते । विस्मेरत्वं भव्यजन्तुव्रजानां भासां नाथं पङ्कजानीव नूनम् ॥५७॥ [ शालिनी ] श्रावं श्रावं कीर्तिमुच्चैर्मुनीनां पत्युर्दधुः के मुदं नो गरिष्ठाम् । किं मूषन्तीं विभ्रमं क्षीरनीर-पारावारोल्लोलकल्लोल भासाम् ॥५८॥ कीर्तिस्सुयोगं समवाप्य विष्टपे, गङ्गाऽपि चङ्गीभवदङ्गका जनान् । नाऽपूतयत् सा भुवनत्रयोदरं, किं व्याप्तवत्यास्तव चन्द्रविद्विषः ॥ ५९ ॥ [ इन्द्रवंशा]
मीमांस्यते तर्कचणैर्मुहुर्यत् कार्यं निदानानुगुणं तथेति तत् । यल्लोकमापत् सममात्मसम्भवा, कीर्तिस्तवेन्दुद्विजराजसोदरा ||६०||
[ उपजाति: ]
केषां न विश्वोदरवर्तिनामल-मचर्करीन्मानसपद्ममञ्जसा । कीर्तिस्तव श्रीव महोहरिप्रिया, मदाम्बरज्योतिरधीश्वरस्वसा ॥ ६१ ॥ कीर्तिस्तवाऽधिप! समाधिजुषां न केषां, पैंजूषजाहशुभभूषणभावमायात् ।
लोत्री जगत्सु सुरमन्दरमध्यमान
क्षीरोदसिन्धुभवदुच्चतरङ्गभासाम् ||६२|| [वसन्त०]
सर्वत्र कीर्तिरगमत् किमु कान्तकान्तं,
न स्वैरिणीव समवाप्य निरर्गला सा ।
-
त्वां क्षान्तिमन्तममला विकलोद्यतेन्दु
चन्द्रातपस्य सततं द्विषती मुनीन्दो ! ||६३ ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244