________________
१८०
अनुसन्धान - ६० : विज्ञप्तिपत्र - विशेषाङ्क खण्ड १
सकललोकमनोहरणोद्यत - मदनमानविमर्दनशङ्कर ! । तव मुनीश ! तपस्तपनोज्ज्वल- त्प्रियमहामहसो रुचिरद्युतेः ॥५३॥ वदनपूर्णनिशाकरशोभया, विजितमम्बुरुहं विविभं (धं?) तपः । समभिसृत्य सृजत्यद एव हि ससुरसंसरसंसरसंसरः ॥५४॥ साधुसाधुजनतागणनाथ!, वीक्ष्य वीक्ष्यभवतो भवतोऽलम् । कान्तकान्तिसदनं वदनं स द्भव्यभव्यशरणस्य शरण्यम् ॥५५॥ [ स्वागता] प्रीतिपुञ्जमनिशं जनवाराः प्राप्नुवन्ति धृतधर्मसुभारा: । मण्डलं वरनभश्चमसस्य, सच्चकोरनिकरा इव वीक्ष्य ॥५६॥ दर्श दर्श तावकीनं तदास्यं चेतांस्युच्चैरुल्लसन्ति (?) दधन्ते । विस्मेरत्वं भव्यजन्तुव्रजानां भासां नाथं पङ्कजानीव नूनम् ॥५७॥ [ शालिनी ] श्रावं श्रावं कीर्तिमुच्चैर्मुनीनां पत्युर्दधुः के मुदं नो गरिष्ठाम् । किं मूषन्तीं विभ्रमं क्षीरनीर-पारावारोल्लोलकल्लोल भासाम् ॥५८॥ कीर्तिस्सुयोगं समवाप्य विष्टपे, गङ्गाऽपि चङ्गीभवदङ्गका जनान् । नाऽपूतयत् सा भुवनत्रयोदरं, किं व्याप्तवत्यास्तव चन्द्रविद्विषः ॥ ५९ ॥ [ इन्द्रवंशा]
मीमांस्यते तर्कचणैर्मुहुर्यत् कार्यं निदानानुगुणं तथेति तत् । यल्लोकमापत् सममात्मसम्भवा, कीर्तिस्तवेन्दुद्विजराजसोदरा ||६०||
[ उपजाति: ]
केषां न विश्वोदरवर्तिनामल-मचर्करीन्मानसपद्ममञ्जसा । कीर्तिस्तव श्रीव महोहरिप्रिया, मदाम्बरज्योतिरधीश्वरस्वसा ॥ ६१ ॥ कीर्तिस्तवाऽधिप! समाधिजुषां न केषां, पैंजूषजाहशुभभूषणभावमायात् ।
लोत्री जगत्सु सुरमन्दरमध्यमान
क्षीरोदसिन्धुभवदुच्चतरङ्गभासाम् ||६२|| [वसन्त०]
सर्वत्र कीर्तिरगमत् किमु कान्तकान्तं,
न स्वैरिणीव समवाप्य निरर्गला सा ।
-
त्वां क्षान्तिमन्तममला विकलोद्यतेन्दु
चन्द्रातपस्य सततं द्विषती मुनीन्दो ! ||६३ ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org