________________
जान्युआरी - २०१३
१७९ सम्बोभुवत्यमलमञ्जुलसम्पदं ते,
धामोल्लसत्तमधियां सुनिधेर्धरायाम् ॥४५॥ [वसन्त०] प्रोल्लालसीति वदनं तव लम्भयित्वा,
मार्ग दृशोरवनिनायकमण्डली द्राक् । बिम्बं चकोरपटलीवसुधागभस्तेः,
प्रोद्दित्वरोज्ज्वलविशालविभासनाथम् ॥४६।। नीत्वा दृशोरयनमास्यमभीशुसङ्घ,
बिभ्राणमाशु तमसां पटलैविहीनाः । प्रातर्भवन्त्यसुमतां निकराः खरांशो
बिम्बं यथा तव मुनीश! महोभिरिद्धम् ॥४७|| मन्येऽहं किल विश्वविश्वजनतानन्दप्रणेतुस्तव,
शश्वद्दीप्ततराननप्रियतरद्युत्या जित: श्रीगुरो! । लज्जावान्नकलङ्कतां किमु गतश्रीको हिमांशुस्तदा, मालिन्यं दधते जगज्जनपते! भास्वत्प्रतापाकर! ॥४८॥
[शार्दूल०] विमलविकसत्सत्पाथोभूदलायतलोचने
भविकमनुजाह्लादव्रातप्रणेतृमुखश्रिया । तव मुनिपते! मन्येऽद्याऽपि प्रतर्जित एव खे,
तुहिनकिरणो न स्थेमानं कदापि सृजत्ययम् ॥४९।। [हरिणी] अहमवैमि तव वतिनां प्रभो!, मधुरदीप्ततराननशोभया । कुमुदबान्धव एव तिरस्कृतः, परिकृशत्वमियति तथाऽनिशम् ॥५०॥
[द्रुतवि०] मुनिगणेन्द्र! गजेन्द्रसदृग्गते!, तव विकाशिमुखस्य सदोदितेः । उपमतामभियातुमवैम्यहं, सुरनरासुरनेत्रसुनन्दिनः ॥५१॥ परमयोगनिलीनहृदीश्वर!, रुचिरशीर्षसुपर्वसरित्तटे । स्थित इति प्रकरोति तप: स्वयं, कृशतनुस्तुहिनांशुरहर्निशम् ॥५२॥
युग्मम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org