________________
१७८
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
विज्ञप्तिं प्रणयत्युच्चैः, पुरतः प्रह्वमानसः । भालस्थलविशालाब्ज-कोश(शो)त्तमशयद्वयः ॥३५॥ प्रातरत्र महेभ्यानां, सभ्यानां संसदि ध्रुवम् । स्थानाङ्गसूत्र-वृत्त्योस्त-त्सत्स्वाध्यायादिमे क्षणे ॥३९॥ जायमाने क्रमोपेतं, महामहविराजितम् । सर्वपळशिरोरत्नं, पर्व पर्युषणाभिधम् ॥३७॥ कल्पद्रुकल्पश्रीकल्प-सूत्रवृत्तिनवक्षणम् । चारुश्रीफलपूग्यादि-भूतभूरिप्रभावनम् ॥३८|| सप्तदशभिदा सार्व-सपर्याऽऽडम्बरान्वितम् । निश्शेषपारणाभोज्य-मञ्जुलामोदमोदकम् ॥३९॥ पक्षक्षपणषष्ठादि-तपोलीननरव्रजम् । मनीषितातिरिक्ताप्ति-प्रमोदितवनीपकम् ॥४०॥ प्रत्यूहव्यूहराहित्यं, सातसन्ततिसञ्चितम् । श्रीपूज्यवंशसद्वृत्त-गानैकतानमानवम् ॥४१॥ । जंजनीति स्म जंजंति, धर्मकृत्यं च साम्प्रतम् । श्रीमत्तत्रभवन्नाम-मन्त्रध्यानप्रभावतः ॥४२।।
॥ अथ गुरुवर्णनम् ॥ नम्राखण्डलमण्डलीसुकतटीकोटीरकोटिस्फुर
न्नानारत्नमनोरमांशुलहरीप्रक्षालितांहिद्वयम् । चन्द्राङ्काभयदं मुदा नतिपथं नीत्वा सनाथं श्रिया, स्तोष्ये श्रीविजयप्रभं गणधरं नाथं तपश्शालिनाम् ॥४३॥
[शार्दूल०] नीलोत्पलीयन्ति दृशो न लोकं, लोकं भृशं ते मुखचारुचन्द्रम् । केषां गुरो! तं तमसां कलापं, प्रोज्जासयन्तं स्फुरदंशुजालैः ॥४४॥
[उपजातिः] श्रीमद्गुरो! विकचवक्त्रसरोभवे ते,
भृङ्गन्ति लोचनयुगानि सदेह येषाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org