Book Title: Anusandhan 2013 03 SrNo 60
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१६८
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
सामाजिकेभ्यावलिशोभितायां, संसद्यमत्येन्द्रसभानिभायाम् । सदोत्तराख्याध्ययनस्य वृत्ति-व्याख्यानमेवं नृतमोनिवृत्तिम् ।।६०॥ आवश्यकाख्यस्य च सूत्रवाचनं, स्वाध्यायकृत्येऽष्टककर्मवारणम् । अध्यापनं चाऽध्ययनं मुनीनां, प्रारब्धतन्त्रस्य सदेप्सितस्य ॥६१|| योगोपधानोद्वहनं प्रबर्ह-प्रभावनानन्दिकपूर्वकं च ।। इत्यादिसद्धर्मविशेषकार्ये, प्रवर्धमाने सततं प्रधाने ॥६२॥ पूजाविधानं सुतपस्विनां च, श्रेष्ठश्रिया बन्धुरसाधनं च । इत्यादिसद्धर्मविशेषकार्ये, प्रवर्धमाने सततं प्रधाने ॥६३|| अनुक्रमेणाऽखिलपर्वगर्वा-पहारिणि श्रीमति वार्षिके च । समागते पर्वणि धर्मकारिणां, महोत्सवे पावनसौख्यकारिणि ॥६४|| प्रवर्तनं स्नात्रससप्तदिग्मित-प्रभेदपूजादिमहोत्सवानाम् । जिनालये नर्तकनर्तनं च, निवर्तनं संसृतिभीतिभूयम् ॥६५।। श्रीकल्पसूत्रस्य च कल्पवृक्ष-कल्पस्य तीर्थङ्करभाषितस्य । सद्वाचनं वृत्तियुतस्य चोत्सवै-र्नवक्षणैः श्रोतृसुखप्रदस्य ॥६६|| षष्टाष्टमाष्टद्विदशेन्दुदिग्मित-सत्पक्षमासक्षपणादिकानाम् । अनेकधानां तपसां विधानं, दुर्वारकर्मक्षयमूलकारणम् ॥६७॥ आदित्यसङ्ख्यावधिघस्रमारि-निवर्तनं दुन्दुभिघोषणाद्यम् । सब्रह्मचारिप्रकरस्य पोषणं, नानाविधैर्मोदकघार्तिकैश्च ॥६८।। प्रभावनं श्रीफलमोदकैश्च, पूगीफलैः श्रीजिनशासनस्य । सदोन्नतेः संतननं विधानं, यथेप्सितं नित्यसमर्थिनां च ॥६९॥ इत्यादि कृत्यं च निरन्तरायं, प्रवर्तते तर्हि वरिवरीति । विभूषितं नित्यमहामहैश्च, श्रीपूज्यपादप्रवरप्रसादात् ।।७०।। अपरम्वागीश्वरी मद्वदने पदं चे-निर्माति कारुण्यमहो प्रणीय । श्रीमद्गुणौघान् विवरीतुकामः, सुधांशुशुभ्रान् प्रवणो भवामि ॥७१।। विभो! त्वदीयप्रवरप्रतापा-पूर्वप्रवृद्धानल एष रेजे । जक्षत् कुवादिप्रकरार्जुनानि, केषां न सन्तापकरोति चित्रम् ॥७२॥ तवोपदेशः किल कोऽप्यपूर्वो, दीपोऽस्ति दीप्रो जगति प्रवर्तते । एकोऽप्यनेकस्य जनस्य चेतो-ऽगारस्य चित्रं मलिनं निबर्हते ॥७३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244