SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १६८ अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ सामाजिकेभ्यावलिशोभितायां, संसद्यमत्येन्द्रसभानिभायाम् । सदोत्तराख्याध्ययनस्य वृत्ति-व्याख्यानमेवं नृतमोनिवृत्तिम् ।।६०॥ आवश्यकाख्यस्य च सूत्रवाचनं, स्वाध्यायकृत्येऽष्टककर्मवारणम् । अध्यापनं चाऽध्ययनं मुनीनां, प्रारब्धतन्त्रस्य सदेप्सितस्य ॥६१|| योगोपधानोद्वहनं प्रबर्ह-प्रभावनानन्दिकपूर्वकं च ।। इत्यादिसद्धर्मविशेषकार्ये, प्रवर्धमाने सततं प्रधाने ॥६२॥ पूजाविधानं सुतपस्विनां च, श्रेष्ठश्रिया बन्धुरसाधनं च । इत्यादिसद्धर्मविशेषकार्ये, प्रवर्धमाने सततं प्रधाने ॥६३|| अनुक्रमेणाऽखिलपर्वगर्वा-पहारिणि श्रीमति वार्षिके च । समागते पर्वणि धर्मकारिणां, महोत्सवे पावनसौख्यकारिणि ॥६४|| प्रवर्तनं स्नात्रससप्तदिग्मित-प्रभेदपूजादिमहोत्सवानाम् । जिनालये नर्तकनर्तनं च, निवर्तनं संसृतिभीतिभूयम् ॥६५।। श्रीकल्पसूत्रस्य च कल्पवृक्ष-कल्पस्य तीर्थङ्करभाषितस्य । सद्वाचनं वृत्तियुतस्य चोत्सवै-र्नवक्षणैः श्रोतृसुखप्रदस्य ॥६६|| षष्टाष्टमाष्टद्विदशेन्दुदिग्मित-सत्पक्षमासक्षपणादिकानाम् । अनेकधानां तपसां विधानं, दुर्वारकर्मक्षयमूलकारणम् ॥६७॥ आदित्यसङ्ख्यावधिघस्रमारि-निवर्तनं दुन्दुभिघोषणाद्यम् । सब्रह्मचारिप्रकरस्य पोषणं, नानाविधैर्मोदकघार्तिकैश्च ॥६८।। प्रभावनं श्रीफलमोदकैश्च, पूगीफलैः श्रीजिनशासनस्य । सदोन्नतेः संतननं विधानं, यथेप्सितं नित्यसमर्थिनां च ॥६९॥ इत्यादि कृत्यं च निरन्तरायं, प्रवर्तते तर्हि वरिवरीति । विभूषितं नित्यमहामहैश्च, श्रीपूज्यपादप्रवरप्रसादात् ।।७०।। अपरम्वागीश्वरी मद्वदने पदं चे-निर्माति कारुण्यमहो प्रणीय । श्रीमद्गुणौघान् विवरीतुकामः, सुधांशुशुभ्रान् प्रवणो भवामि ॥७१।। विभो! त्वदीयप्रवरप्रतापा-पूर्वप्रवृद्धानल एष रेजे । जक्षत् कुवादिप्रकरार्जुनानि, केषां न सन्तापकरोति चित्रम् ॥७२॥ तवोपदेशः किल कोऽप्यपूर्वो, दीपोऽस्ति दीप्रो जगति प्रवर्तते । एकोऽप्यनेकस्य जनस्य चेतो-ऽगारस्य चित्रं मलिनं निबर्हते ॥७३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy