________________
१६७
जान्युआरी - २०१३
स्वत्यागसन्तर्जितकल्पशालो, यत्राऽष्टमीचन्द्रसवर्णभालः । प्राचीनबहि:समशौर्यजालो, निवेशने चञ्चति भूमिपालः ॥४८।। स्फुटोवरेखाङ्कितचारुपादो, विस्तीर्णवक्षो घननि(भी?)मनादः । यस्मिन् पुरे राजति राजराजः, स्थैर्येण सन्तर्जितशैलराजः ॥४९॥ द्रव्येश्वराणां च मुनिप्रभूणां, प्रत्यालयं यत्र विलोक्य लक्ष्मीम् । इति प्रबुद्धा इह तर्कयन्ति, तर्कालया अस्ति(याः सन्ति) सहस्ररूपाः ॥५०॥ कल्याणमुख्यैकगृहे(ह) प्रबुद्धा, उपाश्रये(यं) वीक्ष्य च सप्तभूमम् । वदन्ति यस्मिन् विधिनोपनीतं, सङ्घस्य लोकत्रयसारमेव ॥५१॥ उक्ताश्चतुःषष्टिरिवाच्युताग्रजा-स्तन्त्रे श्रुता ये खलु यत्र लक्षशः । श्राद्धान् विलोक्येति सुरेन्द्रतुल्यान्, स्वान्ते प्रबुद्धाश्च वितर्कयन्ति ॥५२॥ सुश्राविकापाणिबहुप्रदत्व-समानता यत्र पुरे च नाऽस्ति । चिन्तामणिस्वस्तरुदेवगोनां, पाषाणकाष्ठत्वचरित्वदोषात् ॥५३।। नाकाङ्गना यत्र दिवं विहाय, सुश्राविकानां छलतः समेताः । दानादिपुण्यस्य चिकीर्षया किं, हिरण्यसद्भूषितशोभितानाम् ।।५४|| तत्र श्रीपुरबन्दिरे जिनगृहप्रोतुङ्गशृङ्गध्वजच्छायध्वस्तदिवाकराश्वपदवीधर्माम्भसि श्रीमति । श्रीमत्पूज्यपदारविन्दयुगलीसम्पर्कसत्पाविते, विद्यानन्दविभूषिताननकविश्रेणीभृशं भूषिते ॥५५॥ [शार्दूल०] स्त्रीपुंसरत्नाकररोहणाचला-दैलप्रकारक्षितिभर्तृभूषितात् । पाखण्डिलोकप्रकरैरखण्डितात्, श्रीरामदुर्गाद् बहुलक्ष्मीमण्डितात् ॥५६।।
[इन्द्रवंशा] श्रीमज्जिनोक्तैर्द्विदशप्रमाणे-रावर्तकैस्तैरभिवन्द्य वन्द्यान् । - - - - - - - - - - - - - - - - - * ||५७॥ [उपजातिः] हर्षप्रकर्षातिविलाससद्म, ललाटकोशीकृत] हस्तपद्मः । शिष्याणुकल्याणपयोनिधिः सद्-विज्ञप्तिपत्रीं तनुतेतमां च ॥५८॥ यथाऽत्र कार्यं तपने दधाने, सदोदयं ध्वस्ततमः:प्रताने । पद्मोत्कराह्लादभरं ददाने, भूमण्डलेनाऽस्तविभाविताने ॥५९।।
★ श्लोकार्द्धं विनष्टमस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org