________________
१६६
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ विहारलेखाशिखरैर्जितश्च, श्रवद्भराणां मिषतश्चकार । उच्चत्वया रोदनमेव मन्ये, द्रङ्गे भवानीगुरुरेष यत्र ॥३५॥ यत्राभ्रङ्कषकृष्णरत्नघटितश्रीजैनसद्मप्रभाश्यामीभूतवसुः प्रकामविमला वेल्हत्पताकातता । जाने किं शमनस्वसा स्वपितरं सङ्गार्थमेवं गता, क्रीडत्यङ्कतले घनाश्रयमणेविभ्रासते गाङ्गता ॥३६॥ [शार्दूल०] यस्यां नगर्यां प्रतिबिम्बकेन, पतत्यसौ ध्वान्तभिदे पतङ्गः । तमोभ्रमात् कृष्णमणीप्रक्लृप्त-प्रकृष्टलीलालयभूमिकेषु ॥३७॥ [उपजातिः] भ्रान्त्या कुवेलस्य निशाकरं पुरे, यत्राऽऽलिपङ्क्तिः प्रतिरूपितं खलु । निषेवतेऽनेकमणीमयेषु च, महोन्नतागारतताजिरेषु यत् ॥३८॥ [वंशस्थः] यस्यां निशायां दिनभानुतेजः(जसा), संतप्तया सूर्यमणीप्रक्लृप्तया । पाल्या दुनोति व्रजतां च नो हिम-शेषे नृणां सद्मनि पादयामलम् ॥३९॥ [इन्द्रवंशा] ददर्श लोकैर्हरिणो गृहीत-पिण्डो हरिद्रनगृहप्रदेशे । दन्ताग्रसंलग्नमरीचिरोहो, नम्राननो यत्र तृणेच्छयेव ॥४०॥ [उपजातिः] यस्यां स्फुरच्चन्द्रमरीचिमण्डलै-रेकीकृता रात्रिषु पुष्करे गताः । चकासिरे स्फाटिकसद्मसन्तती-र्वामाः समारुह्य सुराङ्गना इव ॥४१|| वदननीररुहै रजनीकर-मपि जिगाय महीस्थवशागणः । सदनशृङ्गमतीततपद्धति, समधिरोहति यत्र मुधा स्म हि ॥४२॥ [द्रुतवि०] यस्यां महेलावदनोपभास-त्प्राप्त्यै तपस्वी क्षणदाकरश्च । क्षीणो महादेववराङ्गविष्णु-पदीतटे किं वसति स्म मन्ये ॥४३।। [उपजाति:] आकण्ठमग्नं सुमुखीमुखोपमा-प्राप्त्यै पयोजन्म करोति यत्र । पानीयवासादि तपस्तडागे, निवेशने प्राज्यरमाभते च ॥४४॥ यस्यां नगर्यां वरवर्णिनी स-द्रूपस्वरूपेण विमोहितश्च । कामः सकामोऽपि भवेत् परेषां, वार्ता हि का कथ्यत एव नृणाम् ॥४५॥ वप्तेव यस्मिन्नगरे प्रजाप-स्तीक्ष्णान्धकारारिनिभप्रतापः । पाति प्रजां स्वीयसुवंशदीपः, सत्कल्पवल्लीवनमेघरूपः ॥४६।। विराजते यत्र पुरे धरेशो, दुःशत्रुहस्तिक्षणने मृगेशः । रूपप्रभासितकामकान्ति-वक्त्रस्मिताधःकृतचन्द्रकान्तिः ॥४७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org