SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १६५ जान्युआरी - २०१३ दर्शनं तव गुणस्तवनं त-द्भक्तिकाञ्जलिमहं घटयेयम् । वासवो यदि भुजङ्गमभर्ता, हैहयः क्षितिपतेश्च भवेयम् ॥२२॥ [स्वागता] यद्दर्शनं हर्षपरम्पराणा-माधिक्यमालोक्यमवाप महग् । नदी महावेगमिवाऽम्भसा किं, संप्राप्य वर्षासमयं घनस्य ॥२३॥ [उपजातिः] यस्याऽखिलान् मातुमिव स्फुरद्गुणान्, भवेत् प्रभुः को मिहिकांशुनिर्मलान् । एकोऽपि विश्वत्रितयस्य किं यदुत्तंसाय ते सन्महिमस्फुरद्गुणः ॥२४॥ [वंशस्थ] एनं नताखिलसुरासुरमर्त्यमौलि-माणिक्यधामजलधौतपदारविन्दम् । श्रीविश्वसेनसुतमक्षरचारुरामा-लोलल्ललाटतिलकप्रतिमं प्रणम्य ॥२५।। [वसन्त०] प्राकाररूप: कनकस्य मेरु-र्नीरन्ध्ररत्नाररिपक्षतिश्च । प्रसादयन् मानवतीं स्वकाङ्कात्, समागतां यां समुवास शङ्के ॥२६।। [उपजातिः] स्नानार्थमुच्चस्तरमभ्रविष्णु-पद्यां विशालः प्रवरः प्रयाति । यस्यां नगर्यां वरणोपनेतुं, मलीमसं शत्रुगजोद्भवं किम् ॥२७॥ वितर्कयन्तीति जनाः समागता, विलोक्य वप्रं हृदये निवेशने । यस्मिन् धरावारवराङ्गनावर-ध्वनिग्रहाष्टापदभूषणं किल ॥२८॥ [वंशस्थ] यत्रान्तरीक्ष्याग्रविलग्नशृङ्गा, जिनालया लोलपताकिकाङ्काः । ऊर्ध्वं विमानान् गलहस्तयन्ति, सख्याधिकात्यभिमानतायाः ।।२९॥ [उपजातिः] यत्र स्फुरत्स्फाटिकचैत्यशृङ्ग-गाङ्गेयकुम्भद्युतिभिः पलायितम् । यदन्धकारैर्हदये तदेव, मिथ्यात्विनां संवरिवर्ति मन्ये ॥३०॥ नभोलिहश्रीजिनसद्मसानु-ध्वजाञ्चलो यत्र चरीकरीति । कशात्वमेवाऽर्कनियन्तृखेद-हृदन्धकारारितुरङ्गमानाम् ॥३१॥ भानुश्च सेवां शुचिचन्द्रकान्त-प्रणीतचैत्यप्रकरस्य यत्र । घस्रोदयादातनुते निता(शा?)न्तं, यावत् सदा स्वप्रतिकायलक्षात् ॥३२।। अभ्रभ्रमाद् यत्र नभोऽम्बुपश्च, तृप्तिं विहारोत्थितधूपधूमे । ऊर्वीकृतासवो(स्यो) लभते ध्वजाग्र-गृहीतमुक्ताभ्रसरित्पृषद्भिः ॥३३।। प्रोत्तुङ्गजैनालयपङ्क्तिसाम्यं, शिलोच्चयानामिव कुर्वतां द्राग् । कोपेन पक्षक्षयमेव वज्री, वज्रेण यस्मिन् नगरे चकार ॥३४।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy